पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] भाविबाधोद्धारः शेपि सन्दिग्धासिद्धिः । पक्षे उक्तमिथ्यात्वस्य सन्दिग्धत्वादिति दिक् । प्रातिभासिकत्वं व्यर्थमिति तु युक्तमेव, अभावरूपस्य हेतुप्रवि- ष्टस्य ब्रह्माणि सत्त्वात् । अथा भावरूपत्वनिवेशे स्वरूपासिद्व्यापत्त्या भावाधिकरणमेव निवेश्यम् तच्च ब्रह्मणि नास्तीति चेन्न; तन्निवेशेऽपि साधनवैकल्यापत्तेः व्याप्ठ्यग्रहादभावरूपत्वस्यैव व्याप्तिग्राहकत्वेन सार्थ- क्यात् । अधिकरणत्वसामान्याभावेत्यादिकं तु न यूक्तम् । शरीरा'ज- न्यत्वे शरीरांशवैयर्थ्य हि न स्वसमानाधिकरणच्याप्यतावच्छेदकान्तर ३- घटितहेतुतावच्छेदकरूपं, जन्यत्वसामान्यत्वाभावत्वरूपव्याप्यताषच्छेद- कान्तरस्य हेतुतावच्छेदकस्य शरीराजन्यत्वस्याघटकत्वादसमानाधिकरण- त्वाच्च । किन्तु पूर्वव्याख्यातरूपम् । तथाच सामान्याभावस्य हेतावनि- चेशेऽपि वैयर्थ्यमक्षतम् । न च शरीरांशोपि तत्र न व्यर्थ इति तादृश- मेव व्यर्थत्वं वाच्यमिति चाच्यम्: तान्त्रिकसम्मतबीजसत्त्वे त्वदवचना- प्रयोजकत्वात् विशेषाभावकूटस्यैव सामान्याभावत्वेन स्वसमानाधि- करणेत्यादेरपि सत्त्वाच्च । न च प्रातिभासिकत्वावच्छिन्न प्रतियोगिताक- भेदस्यैव हेतौ निवेश्यत्वादधिकरणत्वसामान्याभावो न निविष्ट इति वाच्यम् तथापि ब्रह्मज्ञानान्याबाध्यत्वादिरूपस्य तस्य निवेशे कार्ये अबाध्यत्वादेरेव हेतुत्वसम्भवेन इतरवैयर्थ्यात् । न च सामान्याभावत्वस्य सामा.यावच्छिन्नप्रतियोगिताका भावत्वरूपत्वे सामान्य घटितविशेषाभाव- बुद्धावपि तद्धी नियमः स्यात्, अतः सामान्यभिन्नावच्छिन्नसासान्याव- च्छिन्नप्रतियोगिताकाभावत्वं तद्वाच्यम् तथाच विशेषाभावे तस्या- प्रवेशान्नोक्तरूपं चैयर्थ्यमिति वाच्यम्; विशेषाभावबुद्धौ सामान्याभा- वत्वधीनियमेऽपि सामान्याभावसंसर्गावगाहिबुद्धौ विशेषाभावकूटनिरू- पिनविशेषणवाया भानस्वीकारेण अनतिप्रसङ्गात् सामान्यभावत्वस्य , 1 अतथा, , 2 शरीर, च्छेदकधर्मान्तर, 391