पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

iv बिरुदाङ्कितैः श्रीयुतैः– अनन्तकृष्णशास्त्रिभिः स्वविरचितया भूमिकया सहिता निर्णयसागरमुद्रणालये मुद्रयित्वा प्रकाशिता । अद्वैतसिद्धि- मधिकृत्य वक्तव्या बहवो विषयास्तत्रैव भूमिकायां द्रष्टव्याः ॥ 1 तरङ्गिणीखण्डनपरो गुरुचन्द्रिकाख्यो महानयं ग्रन्थः लघुचन्द्रिका- कर्तृभिरेव पूर्व विरचितः । एतावता कालेन कुत्राप्यमुद्रितोयं सम्मुद्र- णीय इति कृतप्रयत्नैरस्मत्प्राच्यकोशागाराधिकारिभिः चत्वार आदर्शा: समुपयुक्ताः -- १. तेष्वेकः, श्रीमन्महीशूरास्थानधर्माधिकारिणां विद्या- विशारदेत्यादिबिरुदाङ्कितानां कुणिगल्- रामशास्त्रिणां सविधात् । २. द्वितीय: 2, शृङ्गेरीवास्तव्यानां विदुषां वि. एस्. राम- चन्द्रशास्त्रिणां सविधात् । - ३. तृतीयः, मद्रपुरीस्थकोशागाराच्चासादितः । ४. चतुर्थ:, अस्मदीयकोशागारस्थ एव । आदर्शपुस्तकदानेन मुद्रणाय महदुपकृतवतामुदारहृदयानामुप- कारभारं वहामः । अयं चास्य ग्रन्थस्य (आगमबाघोद्धारान्तः) प्रथमो भागः । प्रकाशयिष्यते चाचिरादेवावशिष्टः प्रथमपरिच्छेदान्तो द्वितीयोऽपि भागः || ग्रन्थस्यास्य शोधनादिविषये पूर्वाश्रमे इदानींच बहुपकृतवद्भ्यः कूड्लिशृङ्गेरिश्रीवालुकेश्वरभारतीस्वामिभ्यो नतिततिं समर्पयाम इति शम् ॥ 1“ संक्षिप्तचन्द्रिकार्थेन ” (ल-चं - २ पु), "विस्तरस्तु बृहञ्चन्द्रिकायां द्रष्टव्यः (ल-च-५२६ पु), इत्यादि ग्रन्थकृदुक्तप्रमाणैरयं ग्रन्थो लघुचन्द्रिकायाः पूर्व रचित इति ज्ञायते ॥ 2 अयं चादर्शः ४२८ पृष्ठानां मुद्रणानन्तरमासादितः । एतदनुरोधेन तावत्सु पाठान्तराणि परिशिष्टे प्रदर्शितानि ।