पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका विदितमेव यत् सिद्धान्तबिन्दुवेदान्तकल्पलतिकादिग्रन्थरचना प्रकटीकृतमहामेघाविभवैः तत्रभवद्भिर्मधुसूदन सरस्वतीभिः परिच्छेदचतु- टयात्मकमद्वैतसिद्धिनामकं न्यायामृतखण्डनपरं ग्रन्थरलं निरमायीति । यदीयोक्तिसुधार्णवं व्याख्यातुमुपक्रान्ताः सुगृहीतनामधेया ब्रह्मानन्द- सरस्वत्यः । अद्वैतसिद्धिकर्तृविषय एवं वदन्ति - 1 मधुसूदनसरस्वत्याः पारं वेत्ति सरस्वती । म वेत्ति पारं सरस्वत्या मधुसूदनसरस्वती || इति ॥ अस्या अद्वैतसिद्धेः खण्डनपर तरङ्गिण्याख्यमतिगम्भीरं मन्थ- रत्नं द्वैतमतीयविपश्चित्प्रवराः श्रीमन्तो रामाचार्या रचयामासुः || 2 तरङ्गिणीखण्डनपरां लघुचन्द्रिकाख्यां व्याख्यामद्वैतसिद्धेः श्री- मन्तो ब्रह्मानन्दसरस्वत्यः प्रणिन्युः । यदाहुः – “तद्भङ्गाय तरङ्गिणी- प्रववृते या तामिडां स व्यधाद्ब्रह्मानन्दयतिः " इत्यादि । इयं लघु चन्द्रिका विठ्ठलेशोपाध्यायकृतव्याख्यालङ्कृता महामहोपाध्यायेत्यादि- 1 अस्मदीयप्राच पकोशागार ग्रन्थमालायां प्रकटीकृतस्य तर्कताण्डवग्रन्थस्योपो- द्धाते (-३ पु) न्यायामृतकाराणां काल: कैस्तीयं षोडशशतकमिति शासनसम्पादितो निर्णय इत्युक्तः । तत्कालीनास्तरङ्गिणीकाराः | तरङ्गिणीखण्डनकारास्ततोऽवाचीनाः ॥ सूत्रमुक्तावल्यामस्माभिर्व्याख्याता' (ल-चं - ७४४पु), 'विस्तरेण चेदं बिन्दुटीकायामुक्तम्' (ल-चं-५५८ पु ), इत्यादिप्रमाणैः ग्रन्थस्यास्य कर्तारो ब्रह्मा- नन्दसरस्वत्य इति निर्णीयते । एतदनुरोधेनैतद्न्थान्ते लिखते- 26 महानुभावधौरेयशिवरामाख्यवर्णिनः । एतद्द्रन्थस्य कर्तारो लेखकाः केवलं वयम् || इति श्लोके 'कर्तार' इत्यादिपदं स्वाहङ्कारपरिजिहर्षिया शिवरामवर्णिष्वादरातिशयेन च प्रयुक्तमित्युत्पश्यामः ॥