पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबाधोद्धारः 365 द्रष्टुर्दोषादिभ्रममपि निवर्तयेदेव । तत्कस्य हेतोः ? अशेषभ्रमा- धिष्ठानतत्त्वसाक्षात्कारत्वात् । एवंच बाधबुद्धित्वं न दोषाद्य- बाधकत्वे प्रयोजकम्, अपितु तऋमाधिष्ठानतत्त्वसाक्षात्कारभिन्न- त्वमिति द्रष्टव्यम् । ननु कल्पितत्वावुक्त दृष्टान्तेन तत् बाध्यताम्, इह तु कथमिति चेत्, हन्त ब्रह्मव्यतिरिक्तस्य सर्वस्य कल्पितत्व. स्मरणे शब्दानुभवे वा शुद्ध एव भातीति धर्मस्वरूपमात्रस्य ज्ञापकधी- विषयत्वात् । शब्दाश्रयत्वादिकमुपलक्षणम् तापसत्वविशिष्टस्य जटा इवेति यथा तार्किकैः स्वीक्रियते तथा द्वितीयाभाववत्त्वादिविशिष्टब्रह्म- ज्ञानाधीनलक्षणज्ञानाधीनज्ञाने शुद्धब्रह्मणो भानात् द्वितीयाभावादिकमुप- लक्षणमित्यस्माभिः स्वीक्रियत इाति धर्मिमात्रस्योपलक्ष्यत्वम् । वृत्तिज्ञा- माधीनज्ञानविषयत्वं वा नास्माकमेवेति भावः । न च तथापि एकनामार्थ मात्रविषयकशाब्दबोधे परासम्मतिरिति वाच्यम्; एको द्वावित्यादौ तद - भावात् तत्र शाब्दबोधानङ्गीकारे शृणोमीत्यनुभवबाघापत्तेः । अन्यथा शाब्दानुभवमात्र मपलप्येतेति भावः ॥ , , यत्तु – “प्रत्यक्षे बाघशङ्काया लब्धावकाशत्वमुक्तमयुक्तं ; प्रत्यक्षविषयसत्त्वे फलपर्यन्त परीक्षायाः श्रुतितात्पर्यग्राहकालङ्गेभ्यो बल- वत्त्वात् श्रुतावेव शङ्काया लब्धावकाशत्वात् प्रत्यक्षाविरुद्धार्थे लिङ्गानां तात्पर्य ग्राहकत्वाच्च । अधिष्ठानतत्त्वज्ञानत्वेनैव भ्रमनिवर्तकत्वमित्या- द्यपि न युक्तम् ; स्वाश्रयान्योन्याभावासमानाधिकरणधर्मस्तत्त्वमिति द्रव्य वर्धमानोक्तेः धर्मिस्वरूपस्य तत्त्वरूपत्वाभावात् । व्यावृत्ताकारता द्वेधेत्यादिकमप्ययुक्तम्; उपलक्ष्ये कश्चिद्धर्ममादधत एवोपलक्षणत्वात् । अतएव 'इत्थंभूतलक्षणे' इति सूत्रस्य कश्चित्प्रकारं प्राप्त इत्थं- भूतः तस्य लक्षणे ज्ञापके तृतीयेत्यर्थ इति व्याख्यानम् । अस्तु वैतद्यथातथा । तथापि स्वरूपमात्रज्ञानं न बाधकं, भ्रमविषयीभूत- 1 तात्पर्या. 2 नव्य. 6 ,