पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम् 351 बाधितमिति पश्चादनुमानागमादिप्रसर इति न ताभ्यां तवावः । येन हि यस्य भ्रमत्वं ज्ञायते तत्तस्य बाधकमित्युच्यते । न च चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्यागमादिना भ्रमत्वं ज्ञायते । भ्रमत्व- ज्ञानोत्तरकालमेव तत्प्रवृत्तेः । अप्रामाण्यज्ञानाकलङ्कितं तु स्वार्थ- परिच्छेदकं निश्शङ्कप्रवृत्तिजननयोग्यम् । यथा 'वविरुष्ण एव' 'प्रस्तरो यजमानभिन्न एव' 'घटः सन्नेव' इत्यादि, तंन्यस्यावकाशदर्शनात् नान्येन बाध्यम् । न ह्यत्र प्रागिव दूरादिदोषधीर्वा अर्थाभावनिश्चयो वा कोट्यन्तरालम्बित्वं वा अस्ति । किञ्च क्वचित्प्रत्यक्षं प्रत्यक्षान्तर गौरवाद्युक्तिबाध्यं भवतु । क्वचिच लिङ्गादिकं श्रुतिगौरवात् श्रुत्यनुसारिप्रकरणादिबाध्यं भवतु | राजामात्य इव राजगौरवेण राजभृत्यबाध्यः । तथापि न युक्तिमात्रस्य प्रकरणमात्रस्य वा प्रत्यक्षलिङ्गादिबाधक- त्वम्, प्रत्यक्षाद्यनुसारित्वस्य सर्वत्राभावात् । न हि प्रधान- नीलेsपि नभसि आलोकबाहुल्यदोषान्नैल्यं न गृह्यते, किन्तु शुक्लत्वं दोपादित्यम्यापि सम्भवात् । तस्माद्विनिगमकाभावात् नभसि रूपमात्रं प्रातीतिक; अनुद्भुतरूपानङ्गीकारात् । अङ्गीकारेऽपि नभसस्तद्वत्त्वे मानाभावाद्योग्यनीलरूपाभावस्यैव साध्यत्वसम्भवान्न दोषः । क्वचिच लिङ्गादिकमिति दृष्टान्तत्वेन प्रकृतोपयुक्तम् । प्रकरणमात्रस्य प्रक रणादिमात्रस्य, प्रत्यक्षाद्यनुसारित्वस्येति । प्रत्यक्षसमानविषयकत्वस्य युक्तिमात्रे, श्रुतिसमानविषयकत्वस्य प्रकरणादिमात्रे चाभावादित्यर्थः । कचिद्वाधकजातीयत्वेन बाधकत्वे ढोषमाह - न हि प्रधानेत्यादि । प्रथमतृतीये शिष्टाकोपेऽविरुद्धमिति चेन्न; शास्त्रपरिमाणत्वात् ' -

इत्यधिकरणे स्थितम् स्मार्तानामाचमनादीनां श्रौतैः क्रमकालपरि- माणादिभिः विरोधे श्रौतत्वेन क्रमादीनामेव प्राबल्यादाचमनादि- स्मृतीनामप्रामाण्यं ; न हि 'क्षुत आचामेत्' इत्यादिना विहित- 6