पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 340 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां ." दर्शपूर्णमासोद्देशेन तयोर्विधायकवाक्येन प्रकृतवाक्यमवश्यमेकवाक्यता- पन्नमिति व्यर्थ स्यात् । न हि तेन तयोरतिदेशः पशौ निवर्तते । अथ पशुप्रकरणस्थाज्यभागप्रापकातिदेशेन एकवाक्यतामङ्गीकृत्य 'आज्य- भागान्यत् प्रकृतिवत् कुर्यात्' इत्येवं पर्युदासो वाच्यः, मिन्नप्रकरण- स्थयोः पदैकवाक्यत्वासम्भवेऽपि वाक्यैकवाक्यतासम्भवात् ; सोऽपि न, अभावशक्तस्य नञो भिन्ने लक्षणाद्यापत्तेः प्रतिषेधस्यैव युक्तत्वात् । न च प्रतिषेधपक्षेऽपि विकल्पावश्यकत्वेन अष्टदोषतादोषः; फलमुख- स्वात्, पर्युदासपक्षेपि तदावश्यकत्वाच्च । पशुप्रकरणे हि “ अग्नये आज्यस्यावदीयमानस्य अनुब्रूहि सोमायाज्यस्यावदीयमानस्यानुब्रूहि, अमय आज्यं प्रस्थितं प्रेष्य, सोमायाज्यं प्रस्थितं प्रेष्य" इत्यादि. प्रैषाणामुक्तत्वात्तेषां च लिङ्गा दाज्यभागमात्राङ्गत्वादाज्यभागयोः पशा- वनुष्ठानं प्रतीयत इति विहितपर्युदस्तत्वात् विकल्पावश्यकत्वम् । तस्मा- स्प्रतिषेध एवासौ, तदर्थवादस्तु न सोम इति । यथा सोमे आज्यभागौ न कार्यों तथा पशावित्याज्यभागयोः मिन्दा । न च -- यद्यपि सोमस्या- पूर्वस्वेन आज्यभागयोः तत्राप्रसक्तया न सम्भवति प्रतिषेधः, तथापि सददीक्षणीयादिद्वारा तत्प्रसक्तथा सम्भवतीति वाच्यम्; तथा सति तत एव सोमाकामीषोमीयपशौ तद्विकृतिपश्वन्तरे च निषेधसिद्धया 'न पशौ' इत्यस्य वैयर्थ्यापत्ते: पूर्वनिषेषैकवाक्यत्वे सम्भवति वाक्य- मेदस्यान्याय्यत्वाच्च । तस्मान्नान्तरिक्ष इत्यादिवत् न सोम इत्यनुवाद इति तदिदं विरुद्धयेत, प्रसक्तिं विनापि सोमे प्रतिषेधसम्भवात् इति चेन्न; प्रतिषेधस्य मानान्तरप्राप्तत्वान्निष्प्रयोजनत्वाच्च तात्पर्याविषयत्वेन बिध्य- पेक्षितस्तुतौ न सोम इत्यादेः तात्पर्येपि प्रपञ्चे तात्त्विकत्वाभावस्य बादिविप्रतिपच्या सन्दिग्धत्वेनामा 'सत्वात् निष्प्रपञ्चब्रह्मज्ञानार्थत्वेन , 4 5 ķ 2 प्रैष्य. 4 र्याविषयन्वे निषेधनिन्दायां 1 प्रकृताविव. विध्यपेक्षित 5 त्वभावस्य 6 त्वेन प्रा. 8 देवतालिङ्गा. [ प्रथमः