परिच्छेदः] मिथ्यात्वानुमितेः शैत्यानुमितिसाम्यभङ्गः 339 भावात् न बाध्यबाधकमावः ? अन्त्येऽपि किमध्यक्षसिद्ध व्यावहारि- कसत्त्वमगृहीत्वैव तदसिद्धस्य तात्विकसत्त्वस्यैव अभावं गृकात्य- नुमानादि ? उत प्रत्यक्षविषयीकृतस्यैव तास्विकमभावम् १ नन्त्यः प्रत्यक्षविषयाभावग्राहिणि तदबाधकत्वोक्तथ योगात् । न द्वितीयः; प्रत्यक्षागृहीतप्रतिषेधकत्वेन अग्रसक्तप्रतिषेधापत्तेः, प्रत्यक्षविष- यस्य तात्विकत्वापत्तेश्च । न प्रथमः; उपजीव्यप्रत्यक्षविरोधेन अनुमित्यादिीविषयस्य तात्विकत्वासिद्धेरिति चेन्न; प्रथमे द्वितीये च पक्षे अनुपपत्यभावात् । तथाहि प्रथमे पक्षे न तात्त्विकत्वा- सिद्धिः, यस्मात् 'इदं रजतम्' इत्यनेन 'नेदं रजतम्' इत्यस्य बाधादर्शनात् परीक्षितमेव बाधकमभ्युपेयम् । परीक्षा च प्रवृत्ति- संवादादिरूपा व्यवहारदशायामबाध्यत्वं विना अनुपपना तशा बाघग्राहिणं बाधते नाद्वैतश्रुत्यनुमानादिकमित्युक्तमेव । येऽपि पक्षे नाप्रसक्तप्रतिषेधः, परोक्षप्रसक्तेस्सम्भवात् । यत्तु कोच- दात्मनि तात्त्विकसत्त्वप्रसिद्ध्या प्रसक्तिमुपपादयन्ति, तन्त्र न हि प्रतियोगिज्ञानमात्रं प्रसक्तिः । किं तर्हि ? निषेधाधिकरणक- प्रतियोगिज्ञानम् | न चात्मा निषेधाधिकरणम् । तस्मात्परोक्ष- प्रसक्तिरेव दर्शनीया । अथवा मा भूत्प्रसक्तिः । अभावप्रत्यक्षे हि संसर्गारोपत्वेन सा उपयुज्यते । शब्दानुमानयोस्तु तस्याः क्वोपयोगः ? न चाप्रसक्तौ निषेधवैयर्थ्यम्; अनर्थनिवृत्तिरूपस्य तत्रेत्यर्थः । क्कोपयोग इति । ननु प्रसक्तिं विना प्रतिषेधे 'न तौ पशौ करोति न सोमे' इत्यादौ प्रतिषेधास्वीकारो न युज्यते; तथाहि - दशमाष्टमे 'अपूर्वे त्वर्थवादस्स्यात्' इत्यधिकरणे स्थितं - 'आज्य- भागावभीषोमाभ्यां यजति' इत्याज्यभागौ विधाय 'न तौ पशौ करोति न सोमेऽध्वरे' इति दर्शपूर्णमासप्रकरणस्थवाक्ये न तौ पशौ' इति न पर्युदासः; स हि पशुभिन्ने तौ करोतीत्येवरूपो न । तथा सति 6 22 *
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३५९
दिखावट