पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

336 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः मिति विरोधाभावेन तत्परत्वसिद्धेः । परशब्देन च मानान्तर- बाधितपरत्वं विवक्षितम् । तेन प्रमानन्तरभ्रमे न व्यभिचारः, तस्य तदुत्तरभाविमानबाधितत्वात् । 'नक्का सेट्' इत्यस्य तु पाठतः परत्वेऽपि स्वभावसिद्धकित्वस्यानेन अपाकरणं विना पुनस्तत्प्रतिप्रसवार्थ मृडमृदेत्यादेः अप्रवृत्तेः तदपेक्षया अर्थतः द्वितीय प्रयोगस्थदक्षिणायाः पूर्वप्रयोगाङ्गत्वे सर्वदा बाघस्योक्तत्वात् । अर्थतः पूर्वत्वमिति । तथाच पाठलब्धादर्थलब्धस्य पौर्वापर्यस्य बल- वत्त्वात्तेनैव व्यवस्थेति भावः । यत्तु 'व्यावहारिकप्रामाण्यमादाय प्रत्य- क्षस्य सावकाशस्योक्ति'र्न युक्ता, प्रामाण्यमात्रस्य तात्त्विकस्य स्वीका- रात्, इति तत्तुच्छम्; श्रुतिप्रत्यक्षयोः तात्त्विकप्रामाण्यविरोधे श्रुतेर- तात्त्विकप्रामाण्यस्यासम्भवात् प्रत्यक्षस्यैव तदित्युक्तत्वात्, तत्र प्रतिकूल- तर्कमप्रदर्श्य त्वदस्वीकारमात्रस्याप्रयोजकत्वात् । अतएव तत्परत्वादित्या- दावसिद्धिः, प्रत्यक्षबाधिते तात्पर्याभावात्, द्वितीयहेतावपि मानान्तर- बाघितेति विशेषणासिद्धिः । श्रुतेः प्रत्यक्षबाधिता र्थकत्वादित्यपि तुच्छम् ; प्रत्यक्षस्यानिश्चिततात्त्विकप्रामाण्यकत्वेन व्यावहारिकप्रामाण्ये सावकाश- त्वेन च तात्त्विकप्रामाण्यं विना निरवकाशत्वादियुक्तश्रुतावबाधकत्वस्योक्त- त्वात् । अन्यथा अन्यतरस्यैव तात्त्विकप्रामाण्यनिश्चयेन बाघकत्वनिश्चये तत्परत्वरूपापच्छेदन्यायानुसरणस्य वैफल्यात् । तस्मात्पररीत्या अन्य - तरस्यापि तदनिश्चये मद्रीत्या श्रुतेः तन्निश्चयेऽपि प्रकारान्तरेणापि श्रुतौ तन्निश्चयाय तदनुसरणात्परप्रलापोऽनव काशः । यद्यपि 'मृड मृद' इत्यादिना पूर्वेणाप्यपवादन्यायेन 'नक्ता सेट्' इत्यस्य बाध इति, तदपि तथा, मृडेत्यादेः पूर्वप्रवृत्तिवैयर्थ्यस्योक्तत्वात् । यत्र हि अपवादशास्त्रार्थः उत्सर्गशास्त्रं विनापि सिद्धस्तत्र अपवादशास्त्रं पूर्वं 3 तदन्य. 1 त्वोक्ति, 2 बाध्या. 4 प्रलापानव.