पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अपच्छेदन्यायवैषम्यभङ्गः वकाशोस्तीति चेन; उद्गात्रपच्छेदाभावे युगपदुभयापच्छेदे प्रतिहर्त्रपच्छेदस्य पश्चान्त्वे च ज्योतिष्टोमद्वितीयप्रयोगे प्रतिहत्र- पच्छेदनिमित्तसर्वस्वदक्षिणयागप्रतिपादकशास्त्रस्य सावकाशत्व- वत् व्यावहारिकप्रामाण्ये प्रत्यक्षस्यापि सावकाशत्वात् तत्रैक- प्रयोगे विरोधवदत्रापि तात्त्विकत्वांशे विरोधात् । अतएव सगुणसप्रपञ्चश्रुत्योः निर्गुणनिष्प्रपञ्चश्रुतिभ्यां अपच्छेदन्यायेन बाघ इति सुष्टुक्तम् । तदुक्तमानन्दबोधाचार्यैः– तत्परत्वात्परत्वाच्च निर्दोषत्वाच्च वैदिकम् । पूर्वस्य बाधकं नायं सर्प इत्यादिवाक्यवत् || इति । ननु मानान्तरावरोधे श्रुतेस्तत्परत्वमसिद्धम्, परत्वं तु प्रमानन्तरभ्रमे व्यभिचारि दृश्यते । 'नक्का सेट्' इति परं प्रति 'मृडमृदगुधकुषाक्लेशवदवसः क्ता' इति पूर्वमपि बाधकम् । निर्दोषत्वं त्वर्थान्तरप्रामाण्येनान्यथासिद्धम् । तदुक्तम्--- तत्परत्वमसिद्धत्वात् परत्वं व्यभिचारतः । निर्दोषताऽन्यथासिद्धेः प्राबल्यं नैव साधयेत् || इति चेन्न; प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं श्रुतेस्तु, तात्विक - क्रियत इत्यर्थकोक्तवाक्ये नित्यनैमित्तिकशास्त्रयोः व्यवस्थितविषयकत्व- सम्भव एव बाध्यबाधकभावप्रदर्शनायोक्तः । बदरफलदृष्टान्तस्तु विषमः; तत्र कालभेदावच्छेदेन श्यामरक्तत्वज्ञानयोः बाध्यबाधकत्वात् । प्रकृते चैकस्मिन् प्रयोगे एकदा सर्वस्वदक्षिणात्वादक्षिणात्वज्ञानयोः बाध्य- बाधकत्वावश्यकत्वात् यदा दक्षिणा प्रसक्ता तदा निर्दक्षिणत्वस्य शास्त्रार्थ त्वात् तथापीदमपि भ्रान्त्यैव परेणोक्तम् । पश्चान्वे चेति । चकारो द्वितीयप्रयोगे इत्यस्योत्तरं योज्य: । द्वितीयेति । प्रति- हर्त्रपच्छेदोत्तरजातोद्गात्रपच्छेदनिमित्तकेत्यादिः । परोक्तिमभ्युपगम्येदम्, 1 1 अशास्त्रार्थ. - 335