पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाध्यत्व विचारः 313 मानार्थपरित्यागेन अर्थान्तरपरत्वं वा १ अशक्यार्थत्वं वा १ नाद्यः; सामानाधिकरण्येन प्रतीयमानस्यैक्यस्यात्यागात् । नान्त्यः; जहदजहल्लक्षणाश्रयणेन शक्यैकदेशपरित्यागेऽपि 'सोऽ- यं देवदत्तः' इत्यादिवाक्य इव शक्यैकदेशस्यान्वयाभ्युपगमात् । विशेषणबाधेन विशेष्यमात्रान्वयस्यैवात्र लक्षणाशब्देन व्यप- देशात् । तथाचोक्तं वाचस्पतिमिश्रैः– “प्रस्तरादिवाक्यमन्य- शेषत्वादमुख्यार्थम् । अद्वैतवाक्यं त्वनन्यशेषत्वान्पुख्यार्थमेव । उक्तं हि शाबरभाष्ये – 'न विधौ परश्शब्दार्थः' इति ” । यथाचापूर्वत्वाद्येकैकतात्पर्यलिङ्गेन ' यजमानः प्रस्तरः' इत्या- द्यर्थवादवाक्यानां न स्वार्थपरत्वं तथा वक्ष्यामः । नन्वन्यशेष- यदा न तत्तदा न तदिति सर्वमुपपद्यत इति ध्येयम् । प्रतीयमानस्येति । नन्वखण्ड मैक्यं प्रतीयत एव; नेत्यत आह - सामानाधिकरण्येनेति । अकार्यकारणद्रव्यबोधकसमानाधिकरणनाम- द्वयत्वावच्छेदेन अखण्डार्थत्वमानुभविकमिति विवरणायुक्तत्वात् अख- ण्डार्थता । अधिकं तु अम्रे वक्ष्यते । विशेष्यमात्रान्वयस्येति । विशेष्यमात्रान्वयबोधोपधायकधीविषयशक्तेरित्यर्थः । नन्वेवममुख्य - वृत्तिज्ञानाधीनवाक्यार्थधीजनकत्वाद्वाक्यममुख्यार्थ 2 स्यादित्याशङ्कच वाक्यस्यामुख्यार्थत्वं नोक्तरूपं, किन्तु वक्ष्यमाणमित्याशयेनाह - तथाचोक्तमिति । वक्ष्याम इति । उपक्रमोपसंहारयोरेकार्थ निष्ठत्व- मभ्यासार्थवादौ चेति त्रयं शब्दगतम् । अज्ञातत्वरूपापूर्वत्वं फलं अबाधितत्वरूपोपपत्तिश्चेति षट्सु लिङ्गेषु अन्त्यत्रयमर्थनिष्ठम् । प्रामाण्य- शरीरनिर्वाहद्वारा तात्पर्यज्ञापकमवश्यमपेक्षणीयं; मानान्तरेण ज्ञाने निष्फले बाघिते वा प्रमात्वासम्भवेन तात्पर्यासम्भवात्, आयत्रयेप्यर्थ - वादस्याप्यावश्यकत्वमन्यथा विषेयप्राशस्त्यबुद्धय सम्भवेन विधिपर्यव- 1 नन्वेवं मुख्य. 2 वाक्यं मुख्यार्थ. 1 ज्ञाते. -