पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः ननु प्रत्यक्षस्य लिङ्गबाध्यते वढयैष्ण्यप्रत्यक्षं शैत्यानुमान स्यात्मस्थायित्वप्रत्यभिज्ञानं च क्षणिकत्वानुमानस्य बाधकं न स्यात् । प्रत्युतानुमानमेव तयोर्बाधकं स्यादिति चेन्न; अर्थ- क्रियासंवादेन श्रुत्यनुग्रहेण च तत्र प्रत्यक्षयोः प्राबल्येनानुमा- नबाधकत्वात् । अपरीक्षितप्रत्यक्षं हि परीक्षितानुमानापेक्षया काशम् । स्वविषयश्रुतिद्वारा विरुद्धविषयक प्रत्यक्षम्यास्माभिरनुमानबाध्य- त्वास्वीकारात् प्रत्यक्षविषयत्वेन श्रुतिर्बाधिका; वैकृतमन्त्रलिङ्गादि- कल्प्यश्रुतेरतिदेशा' बाघकत्वापत्तेः । किन्तु निरवकाशत्वादिनेत्युक्तम् । अनुमितश्रुतेः प्रत्यक्षश्रुतिबाधकत्वापत्तिस्तु शोभते; उभयोः श्रुतित्वा- विशेषात् बाध्यबाधकत्वानुपपत्तेः । किञ्च अनुमित श्रुत्यपेक्षया प्राबल्यं प्रत्यक्षावषय 'श्रुतित्वेन प्रकृते कथम् ? प्रत्यक्षश्रुतेः स्वविषयस्पर्शनं सर्व वेष्टनं विनानुपपन्नमित्यर्थापत्तिस्वरूपस्योत्थापनीयमानद्वारा अनुमेयश्रुति- विरुद्धविषयकत्वात् साक्षात् तत्प्रतिबन्धा क्षमत्वात् । प्रत्युत प्रत्यक्ष- श्रुतिकल्प्याथपत्त्यपेक्षया अनुमानकल्प्यश्रुतिरेव प्रबला स्यात्, श्रुति त्वात्, कल्पकप्रमाणयोः बलाबलापेक्षया कल्प्यरूपप्रमेयबलाबलस्य प्रबलत्वात् । अथापि केनचिद्विशेषेणप्रमाणबलाबलमेव ग्राह्यम्; तथापि श्रुतित्वेनैव श्रुतिः प्रबल सम्भवत्यनुमानापेक्षयेति प्रत्यक्षविषयत्वविशे- षणं व्यर्थमेवेति ध्येयम् -- अर्थक्रियेति । दाहादिकार्येत्यर्थः । श्रुत्यनु- ग्रहेण 'अजो नित्यः' इत्यादिश्रुत्यनुग्रहेण । यत्तु – “ फलपर्यन्त परीक्षाया जगत्सत्यत्वबोधकश्रुत्यनुग्रहस्य च सन् घट इत्यादिप्रत्यक्षेपि सम्भवात् तस्यापि औष्ण्यादिप्रत्यक्षवदनुमानापेक्षया प्राबल्यमुचितम् । किंच त्वन्मतेअस्तीत्येवोपलब्धव्यः' इत्यादेरप्यखण्डार्थत्वेनात्मनि स्थायित्वसंसर्गप्रमित्यसम्भवः । अयोग्यशृङ्गेत्यादि न युक्तम् । शृङ्गस्य योग्यत्वनियमात्, शृङ्गानुमानं अति प्रत्यक्षबाधोद्भावनसम्भवात् । 1 रतिदेश 2 अनुमेय 3 प्रत्यक्षश्रुतिविषय 4 सर्वा. 5 साक्षात्प्रतिबन्धा. 302 -