पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षस्यानुमानबाध्यत्त्वम् ध्यबाधकभावस्य शास्त्रार्थत्वाभावात् अस्माभिरनभ्युपगमाञ्च अनुक्तोपालम्भमात्रत्वेन निरनुयोज्यानुयोगापत्तेः । अतएव न द्वितीय: ; प्रत्यक्षविषयीभूतश्रुतित्रयस्य लिङ्गबाधकत्वपरेऽपि शास्त्रे प्रत्यक्षस्य लिङ्गबाध्यत्वे विरोधाभावात् । न हि शब्द- प्रत्यक्षयोरैक्यमस्ति । शब्दस्य च सर्वप्रमाणापेक्षया बलवस्त्र- मवोचाम | तस्मात् मैढ्यमात्रमेतन्मीमांसाविरोधोद्भावनम् ॥ दुर्बलत्वस्वीकारेऽपि प्रत्यक्षाविषयस्य शरादिशास्त्रस्य अनुमानरूपातिदेश- बाध्यत्वे आनर्थक्यापत्त्या 'आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्' इत्यादिन्यायेन अनुमानस्यैव बाध्यत्वम् प्रपञ्चसत्वप्रत्यक्षस्य तु त्रिकाला- बाध्यत्वरूपसत्ता'ग्राहित्वस्य उक्तत्वात्, व्यावहारिकसत्वाधिष्ठानसत्व- विषयकत्वेन सावकाशत्वाच्च । नोक्तन्यायेनानुमानबाघकत्वमिति । तथा- प्यनुमानत्वेनोक्ताधिकरणे प्रत्यक्षबाध्यतोक्तेति भ्रान्त्या कुशश्रुत्यनुमाने- नेत्यादि पोणाशङ्किननिनि ध्येयम् || त्यत 301: - ननु प्रत्यक्षविषयकश्रुतेर्विरुद्धविषयकत्वात् प्रत्यक्षस्यापि तदि- आह - अस्माभिरिति । विरुद्धविषयकप्रमाणविषयकप्रत्यक्षे - अनुमानबाध्यत्वस्येति शेषः । साक्षादनुमानविरुद्धार्थविषयकप्रत्यक्षस्यै- वानुमानबाध्यत्वस्य श्रुतेरन्यमानापेक्षया बलवत्त्वस्य चास्मामिः स्वीका- रात् स्वविषयश्रुतिद्वारा विरुद्धविषयकप्रत्यक्षस्य नानुमानापेक्षया दौर्बल्य- मस्मत्सम्मतमिति भावः । मौढ्योति । यत्तु –– 'श्रुतित्रयग्राहिप्रत्यक्षं बाध्येतेत्यापत्तिर्युक्ता प्रत्यक्षविषयश्रुतिः स्वविषयस्पर्शोपपादिका सर्व- बेष्टनादि बोधयति । अनुमानं तु सर्ववेष्टनादिति | विषयीभूतश्रुतिद्वारा प्रत्यक्षस्य विरुद्धविषयकत्वात् श्रुतित्रयं बाध्येतेत्यापत्तिरपि युक्ता ; प्रत्यक्षविषयत्वेन हि श्रुतित्रयं बाधकं न श्रुतित्वेन; अनुमितश्रुतेरपि प्रत्यक्ष श्रुतिबाधकत्वापत्तेः' इति प्रलपितम्, तत् उक्तव्याख्याने निरव- 2 । , - 1 रूपसत्त्वा. 2 वेष्टनादीति.