पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 275 1 किं न स्यादिति वाच्यम्; तात्पर्यलिङ्गैरुपक्रमादिभिः द्वैत- भावेनेत्यर्थकं, ' अ मा नो नाः प्रतिषेधवाचकाः' इत्युक्तेः । तथाच माना विनाशेन किञ्चन नास्ति अस्त्येवेति न अस्थिरमित्यर्थः । तथाच ब्रह्मैव सेव्यं तदन्यस्य विनाशित्वेनास्थैर्यात्तत्प्राप्तेरपुरुषार्थत्वात्, 'मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति' इत्यत्र तु इव- शब्दस्याल्पार्थकत्वादल्पमपि विनाशेन युक्तं यः सेव्यत्वेन पश्यति स मुहुर्मियत इति व्याख्येयम् । अथवा इह ब्रह्मणि नानात्वं नास्तीत्यर्थो लक्षणया वाच्यः, 'हिरुक् नाना च वर्जने' इत्यमरात् । इह ब्रह्मणि पृथक्भाव (रूपवर्जन) विशिष्टं किमपि नास्तीत्यर्थ: । अनेकार्थकत्वेनेति भावः । यत्तु – “ तत्त्वमसीत्यादौ तदादिपदस्य तदीये लक्षणारूपवृत्त्यन्तरेण ब्रह्मैव सन् ब्रह्माप्येतीत्यादा वनेकार्थत्वेन पूर्वब्रह्मपदस्यजीवार्थकतया अध्येतीत्यस्य सम्बन्नातीत्यर्थकतया विषया- न्तरपरता " इति व्यख्यानं तत् शोभते; मिथ्यात्वबोधक श्रुतेः सत्यता प्रत्यक्षेण सङ्कोचस्य प्रकृतत्वात् तदन्यत्र वृत्यन्तरादि ' वर्णनस्य प्रकृतानुपयोगात् । उपक्रमादिभिरिति । बृहदारण्यके षष्ठे द्वितीय- ब्राह्मणान्ते –' स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते अशीर्यो न हि शीर्यते असङ्गः' इत्युपक्रमः | तादृश एव उपसंहारः --- 'अभयं वै जनक प्राप्तोसि' इति, -- चतुर्थब्राह्मणान्ते तपतः ' इति च । तत्रैव फलं – 'अनु मा शाधि' इति - 6 मानान्तराविषयत्वरूपापूर्वतासूचनम् | ' स यत्तत्र किञ्चित् पश्यत्यनन्वा- गतस्तेन भवाते असङ्गो ह्ययं पुरुष इति, नेह नानास्ति किश्चन, सलिल एको द्रष्टा अद्वैतो भवति' इत्यादिरभ्यासः । 'मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति इत्याद्यर्थवाद: । 'एष सेतु- विधरण एषां लोकानां यस्सिन् पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः ' 1 सेव (व्य ) ते न पश्यति. 2 पूर्ववृत्यन्तरादि. 6 प्रत्यक्षबलखण्ड नम्ः , . " नैनं कृताकृते 18*