पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः दक्षिणीयादिस्वरूपमात्रे स्वरावशेषविधायकत्वात् । प्रवर्ग्यं तु साङ्ग एवोच्चैः स्वर उच्चैः प्रवर्येणेत्यस्य तद्विधायकवचनस्य करणतावाचि- तृतीया योगात्साङ्गस्यैव करणत्वात् । ननु यत्किाञ्चदित्यादे: सामान्य- विषयकत्वादेवाहवनीयादिवाक्यवत्सङ्कोचः न तु सावकाशत्वात् सामान्य- विशेषन्यायश्च पूर्वमेवोक्तस्तत्राह – यत्किञ्चिच्छब्दस्येति । प्रकुत- बाचित्वेनेति । विशेषबोधकत्वेनेत्यर्थः सर्वनाम्नां घटादिशब्दपर्या- यतावारणाय बुद्धिविषय विशिष्टशक्तत्वेऽपि विशेषरूपेण शाब्दधीजन- कत्वमावश्यकम् ; अन्यथा विशेषरूपेण संशयस्य निवृत्त्यनुपपत्तेः । तथाच सामान्यविषयकत्वात् न सङ्कोच:, किन्तु सावकाशत्वादिति भावः । यत्तु ' विशेषबोधने प्रकरणसापेक्षतया यत्किञ्चिच्छब्दसङ्कोचः ' इति ततुच्छम्; अनषिोमीयात्प्राचीनं यत्किञ्चिदित्यनेन प्रकरण- निरपेक्षेणैव तत्पदार्थ बोधसम्भवात् अवान्तरापूर्वसाधनलक्षणार्थ- मवान्तरप्रकरणापेक्षणस्य तत्तत्स्वरूपपरिचयार्थं त्त्तद्वाक्यापेक्षणस्य वा दीक्षणीयादिपदेऽपि तुल्यत्वात् । वृत्त्यन्तरेणेति । 'नेह नानास्ति' इत्यादौ आदरणीयं नाना नास्ति इह ब्रह्माण तत्सत्त्वे 2 एकैवादरणीयास्ति' इति लक्षणा (दि ) वृत्त्या विषयान्तरपरतेत्यर्थः । ननु स्वारसिकवृत्तेः सङ्कोचयोग्यता सावकाशता, न हि 'यजमानः प्रस्तर: ' इत्यादेर्यजमानसादृश्यादिबोधकत्वं, 'सोमेन यजेत' इत्यादेः सोम' सम्बन्धिबोधकत्वं च, सावकाशत्वेन सङ्कोचात् । किन्तु मुख्यार्थ- तात्पर्यहीन श्रुत्यपेक्षया बलवत्प्रत्यक्षबाध्यत्वात् । न चाद्वैतश्रुतेः बाध्यत्वं सम्भवति; तात्पर्यवत्त्वात् प्रत्यक्षस्यानिश्चितप्रामाण्यत्वेन न्यूनबलवत्त्वाञ्चेत्यत आह - अनेकार्थत्वेनवेति । 'अन प्राणने ' इत्यस्य भावक्किबन्तस्य नकारपूर्वकस्य नानेतितृतीयान्तं रूपं जीवना- , , 1 तत्फलार्थ. 2 तत्सर्वैः 3 साम. 274