पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] रपि न युक्ता ; वियदादिमिथ्यात्वेऽपि तदापत्तेः, अधिष्ठानमात्र- सत्यत्वस्य शून्यवादेऽपि स्वीकारात्" इति तत्तुच्छम् अस्मद्व्याख्या- तार्थानवबोधमूलकत्वात् । व्याख्यातं हि साक्षात्सम्बन्धेन बाधसत्त्वे सामान्यादौ लोकानां सहुड्यनुदयात् तत्र तत्सम्बन्धेनैव तद्धीरिति । तथाच स्फटिकादौ तत्सम्बन्धेन लौहित्यादेः बाधसत्त्वेपि तद्बुद्धयुदयात् तद्धीः, तत्सम्बन्धेनौपाधिकश्रमत्वात् परम्परा सम्बन्धविषयकत्वाद्वा बाधा- प्रतिबध्या वा, उभयथापि न क्षतिः । तत्र परम्परा सम्बन्धविषयकत्वे च रजतादिकमपि सादृश्यादिसम्बन्धेन शुक्तयादौ भातीति सम्भवेन श्रममात्रोच्छेदः । साक्षात्सम्बन्धविषयकत्वानुभवेन भ्रमत्वकल्पनं तु तुल्यमित्यस्मदीयो भ्रमत्वपक्ष एव साधुः । न परेषां परम्परासम्बन्ध- धीत्वपक्षः । नीलोऽयमित्याद्ययुक्तं, नीलरूपस्यापीदन्त्वादिरूपेण नील- त्वावच्छिन्नप्रतियोगिताकतादात्म्यानुयोगित्वान्नीलोऽयमिति बुद्धेः तादा- त्म्यरूपैकजातीयसम्बन्धविषयकत्वात् रूपविशेष्यकतत्प्रतीतेः परमते अत्यन्ताभेदसम्बन्ध विषयकत्वेऽपि बाधादिकृतविशेषस्यो क्तत्वेना दोषत्वाञ्च यत्तु अन्यथेत्यादेः कमप्यर्थमबुध्वा प्रलपितं, तन्महाचित्रम् । प्रमेयत्वेने- त्यादिकं तु शोभते । न ह्यस्मन्मतेऽननुगतेन व्यवहारविषयस्यानुगमः, किन्तु अननुगम एव तत्तद्रमभेदकूटवज्ज्ञानत्वाद्यनुगतरूपेण जाति- रूपेण वा प्रमात्वादिना प्रमेयत्वाद्यनुगमो वा । ब्रह्मणीत्यादिकं तु चित्रं ; ब्रह्मणि सम्बन्धाभानेऽपि एकसद्व्यक्तिविषयकज्ञानस्य सर्वत्रा- क्षतत्वात् सत्तायाः ऐक्यान्यसम्बन्धमानस्य सर्वसम्मतत्वाच्च । अधि- ष्ठेयेत्यादि युक्तमेव ; सद्रूपमिव नीलादिकमधिष्ठानं स्यादिति मांप्रति त्वया आपादितम् ब्रह्माधिष्ठानं विषमसत्ताकत्वात् न नीलादि तद- भावादिति मदुक्तौ त्वदस्वीकारस्याप्रयोजकत्वात् प्रत्यक्षस्य मिथ्या- त्वविरोधिसत्त्वग्राहकत्वस्य अद्याप्यसिद्धेश्च । अधिष्ठानमात्रेत्यादितु 1 बाधाबाधादिकृतविशेष्य. , A.S.V. प्रत्यक्षबलखण्डनम् , 17 257