पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः नुमानाद्यनिवर्तितदिङ्मोहनादिनिवर्तकत्वेन प्रावल्यम् । एतावता हि वैधर्म्यमात्रं सिद्धम् न च तावता इतरप्रमाणापेक्षया प्राबल्यं भवति । अन्यथा त्वाचप्रत्यक्षनिवर्तितवंशोरगभ्रमनिवर्तकत्वा- चक्षुषोऽपि त्वगपेक्षया प्राबल्यं स्यात् । ततश्च चित्रनिम्नोन्नत- ज्ञानस्य चाक्षुषस्य तद्विरोधित्वाचज्ञानात् बाधो न स्यात् । प्रत्युत आगमस्यैव सर्वतः प्राबल्यं स्मर्यते- 256 'प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्' । इति । न च तद्वैदिकार्थविषयमिति वाच्यम् | अद्वैतस्यापि वैदिकार्थत्वात् । बंशोरगेति । मण्डूकवसाञ्जन दुष्ट नयन जन्यम्र मस्यादुष्ट नयनजप्रत्यक्षेणैव निवृत्तिः । त्वगादिना काठिन्योपलम्भेप्युक्तदोषदुष्टनयनेन वंशोरगदर्श - नादिति भावः । वैदिकेति । वेदान्याबोध्येत्यर्थः अद्वैतस्यति वस्तुतस्तु वेदान्याबोध्येऽर्थेमानान्तरस्य प्रवृत्तेरेवाभावात् दौर्बल्योक्तेरस- शतत्वात् स्वबोध्यार्थ एव मानान्तरस्य दौर्बल्यपरा उक्तस्मृतिरिति बोध्यम् । यत्तु -- " विजातीयसम्बन्धेत्यादिकं न युक्तं ; लोहितोऽय- मिति समानाकारप्रतीतेः स्फटिकादौ स्वसमवायिसंयोगरूपपरम्परासम्ब- न्धेन अन्यत्र समवायेन लौहित्वप्रकारकत्वस्य सर्वैः स्वीकारात्, नीलोड यमित्याकारकप्रतीतेः सम्बन्धभेदेन घटतन्नीलिम्नो: नीलरूपप्रकारक- त्वाच्च । अन्यथेत्याद्यपि न युक्तम् तत्तत्सम्बन्धगोचरबुद्धेः सम्बन्ध- भेदसाधकत्वात् । न च स्वरूपसत्त्वेनेत्यादिकमप्ययुक्तम्; त्वन्मते प्रमेयत्वेनैवाननुगतेनाप्यनुगतव्यवहारसम्भवात् त्वन्मतेऽपि ब्रह्मणि स्वरुपेणान्यत्र तत्सम्बन्धेनेत्यननुगमाच्च आधिष्ठेयविषमेत्यादिकमय्पयुक्तम् ; ब्रह्मणोऽपि घठाद्यपेक्षया आधिकसत्वस्य मया अनङ्गीआरात्, ब्रह्मसत्त्व- श्रुतेरिव सन् घट इत्यादिप्रत्यक्षस्थापि सत्त्वग्राहकत्वात् शून्यवादापत्ति-