पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद ] प्रत्यक्षबल खण्डनम् 253 प्रतीतौ जातिमात्रोच्छेदप्रसङ्गात् । अतएव न सर्वत्रापि स्वरू- पसन्वेनैव सद्व्यवहारः, एकेनैव सर्वानुगतेन सर्वत्र सत्प्रती- - त्युपपत्तौ बहूनां तहेतुत्वकल्पने मानाभावात् । नापि काल- त्रयाबाध्यत्व निबन्धनं तत् तस्य चक्षुराद्यगभ्यत्वस्योक्तत्वात्, सदिदं रजतमित्यादिभ्रमे अभावाच्च । तस्मादेकं सर्वाधिष्ठा- नमेव सादति सर्वत्रानुभूयत इति युक्तम् । नीलादेस्तु घटा- दिसामानाधिकरण्ये किमपि नास्ति बाधकम् । न वा नीला- देरधिष्ठानत्वं सम्भवति, प्रागसच्चात् | नीलपीतादिप्रातस्वि- , कल्प्यत इति विशेषः । न च जन्यसत्वावच्छिन्नं प्रति द्रव्यत्वेन हेतुत्वम् ; अन्यथा रूपादेः स्वसमवायिसमवेतत्वसम्बन्धेन कारणस्य सत्वात् कपालरसादावपि रूपाद्युत्पत्तिस्स्यात् अतो द्रव्यादित्रये 1 सत्तासमवायस्य आवश्यकत्वात् अन्यत्र परम्परासम्धन्बस्य तद्घटितस्य सम्भवान्न स्वरूपसम्बन्धकल्पनमिति विनिगमकमिति वाच्यम्; ताव- तापि हि रूपादिप्वेव साक्षात्सम्बध्यतां सत्ता, न तु द्रव्ये । किञ्च समवायेन जन्यत्वेनैव द्रव्यकार्यत्वसम्भवात् रूपादेर्घटत्वादिवत् अनुगत- नित्यत्वसम्भवन रूपाद्यजन्यत्वसम्भवाच्च नोक्तं विनिगमकमिति भावः । स्वरूपसत्त्वेन - घटादिस्वरूपसत्त्वेन । अथवा स्वरूपसत्त्वेनेति काल- सम्बन्धित्वेनेति देशसम्बन्धित्वेनेति वा अर्थः । सर्वानुगतेनेति । यदि खण्डकालदेशमानं तदा अननुगतत्त्वम् । अथाविद्या रूपमहा- कालदेशभानं तदा अनादिपदार्थेषु तत्सम्बन्धी सम्भव । परम्प- रासम्बन्धस्य तेषु भानेऽपि सम्बन्धस्त्यैकजातीयत्वाभावादननुगम इति भावः । अधिष्ठानत्वं उपदानाज्ञानविषयत्वम् | नीलादेर्घेटत्वा- दिवन्नानाद्रव्यानुगतनित्यत्वमते प्राक्स्तत्वादाह – नीलपीतेति । सद्रूपं 2 - 1 द्रव्यादित्वेन हेतुत्वम् । अन्यथा त्रये 2 तत्सम्बन्ध.