पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

252 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः , अन्यथा सम्बन्धभेद एव न सिद्धयेत् । न च स्वरूपसवेना- भावादौ तत्प्रतीतिः, अननुगमात्, अननुगतेनापि अनुगत- नुभवः अन्यथा तच्छा स्त्रानभिज्ञस्य द्रव्यादित्रयमेव सदितिधीकाले त्रया- न्य सामान्यादिसदिति परम्परासम्भन्धेन सत्ताधी: स्यात् । न च त्रयान्यत्र परम्परासम्बन्धेन सत्तावतो भेदस्त्रयमेवेत्यत्र प्रकार इति परम्परासम्बन्धेन सत्ताधार्न जायते इति वाच्यम्; येन सम्बन्धेन त्रये सत्ताप्रकारः त्रयान्यत्र तत्सम्बन्धेन तद्वतो भेदस्यैव एवकारेण बोधनादेव' परम्परासम्बन्धेन सामान्यादिकं न सदिति धीकाले सामा- न्यादिसदिति धीर्भ्रमस्स्यात् । द्रव्यादिसप्तकं सदेवेति च लोकानुभवो भ्रमस्स्यात् ; विशेष्यतावच्छेदकावच्छेदेन एकसम्बन्धेन सत्ताप्रकारक- त्वात् । न च तदिष्टं; बाधकाभावात् तत्कारणदोषकल्पने गौरवाच्च ‘ लोहितः स्फटिकः’ इत्यादौ तु बाधस्य सर्वानुभाविकत्वात् तत्कल्पना न दोष इति भाव. । अन्यथेति । साक्षात्सम्बन्धस्य प्रामाणि- कत्वसम्भवेऽपि परम्परासम्बन्धस्य कल्पन इत्यर्थः । सम्बन्धभेदः साक्षात्सम्बन्धनानात्वम् । घटादेस्संयोगः समवायो वा अस्तु कपालादौ भूतलादौ वा परम्परासम्बन्धसम्भवात् । अथ क्वसाक्षात् क्व- परम्परेति विनिगमकाभावादुभयत्र परम्परासम्बन्धाननुभवाच्च उभ- यत्रापि साक्षात्सम्बन्धः, तर्हि प्रकृतेऽपि द्रव्यादित्रये साक्षात्, अन्यत्र परम्परेति वा अन्यत्रैव स्वरूपसम्बन्धेन समवायत्वाभावत्वादिवत् सत्ताखण्डोपाधिर्वर्ततं द्रव्यादित्रये स्वरूपसम्बन्धघटितपरम्परासम्बन्धेनेति बेति विनिगमकाभावादुभयत्र परम्पराननुभवाच्चोभयत्रापि साक्षा- त्सम्बन्धः । तत्र घटादेरुत्पत्तिकाले कपालादौ संयोगस्य भूतलादौ समवायस्य चासम्भवात् सम्बन्धभेदसिद्धावपि प्रकृते एकसम्बन्ध एव , 1 किया. 2 भेदस्स्वय 3 बाधनादेवं. 4 न चेत्यादिस्सर्वानुभाविकत्वादि- त्यन्त पाठः क्वचिन्न दृश्यते.