पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधोद्धारः त्वोपस्थितौ तदभावग्रहात् बाघ इत्यनुपपन्नमेव । , , अस्म तुच्छादिघटितत्वाच्च । अतएव वर्तमानविशिष्टरूपेणा'ज्ञानविषयताव- च्छेदकत्वमपि न तथा, शुक्तिरूप्यादेवि सुखादेरपि यावत्स्वसताकालं वर्तमानत्वेन प्रत्ययात्तदभावात् दृष्टिसृष्टिपक्षे घटादावव्याप्तेश्च अज्ञान- विषयतावच्छेदकत्वादेः मन्मते मिथ्यात्याविरोधियाच | यदपि पराभिमतमिथ्यात्वाभावः सत्त्वमिति म्वकीयमूलग्रन्थे पराभिमतमिथ्यात्वं यदि स्वसमानाधिकरणस्वसमानकाली ननिषेधप्रतियोगित्वादि, तदा तद- भावस्य पूर्वमुक्तत्वात् पौनरुक्तयमित्याशङ्खय स्वसमानाधिकरणभेद- प्रतियोगितानवच्छेदकत्वे तात्पर्यमित्युक्तं तदतीव चित्रम् उक्ता- वच्छेदकत्वस्य मिथ्यात्वरूपत्वेनास्मदाचार्यैः क्वाप्यनुक्तत्वेन दिष्टत्वात् । न ह्यस्मन्मते घटादौ घटत्वादिना भेद: स्वीक्रियते - किन्तु घटत्वाद्यत्यन्ताभावः । अथ 'नेह नाना' इत्यादिश्रुता- वत्यन्ताभाव इव अस्थूलमित्यादिश्रुतौ भेदस्य बोधनात् तादृशमपि मिथ्यात्वं युक्तमिति चेन्न; न स्थूलं यत्रेत्यादिव्युत्पत्त्या तस्या अप्यत्यन्ताभावबोधकत्वात्, 'अस्त्रेहनच्छायमि' इत्यादौ तत्पुरुषा- .3 सम्भवेन तत्समभिव्याहारात्, अस्थूलमित्यादावपि बहुबहेिर्युक्तत्वात् विभक्तयन्तत्वानुरोधेन जघन्यत्वेन च चरमपद एव लक्षणाम्चीकारेण तस्याद्यपदलाक्षणिक तत्पुरुषतुल्यत्वाच्च । अतएवाद्वैतरत्नादौ तस्या ' भेदबोधकत्वं खण्डितम् । तद्भोधकत्वेऽव्यार्थिकस्यात्यन्ताभावघटितमि- थ्यात्वस्य बोधनसम्भवात्तादृशबोधमादायैव परिमाणनिषेधबोधकत्वमस्याः पूर्वमाचार्येरुक्तम् । न च परिवति तद्भेदानङ्गीकारे कथं तद्भोधक- त्वमिति वाच्यम्; धार्मेसमसत्ताकेन तदाश्रयत्वेन भेदबोधनसम्भवात् । अतएव नेदं रजतमिति प्रतीतेरार्थिकमिथ्यात्वसाधक त्वमिति पूर्व- । रूपेण 2 यत्तु. 3 अस्मेहोऽच्छाय इत्यापत्त्या. इत्यधिकः पाठः A.S.V. 16 241 4 तस्य.