पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः सर्वदेशीयनिषेधप्रतियोगित्वरूपं मिथ्यात्वं नानुमानेन ग्रहीतुं शक्यत इति चेन; स्वदेशकालवृत्तिसकलानषेधप्रतियोगित्वस्य चक्षुराद्ययोग्यत्वेन तदभावस्य सुतरां तदयोग्यत्वात् । स्वदे- शकालवृत्तियत्किञ्चिभिषेधाप्रतियोगित्वस्य मिथ्यात्वाविरोधि- त्वात् स्वप्रतियोगिकात्यन्ताभावासामानाधिकरण्यस्य च स्वप्र- तियोगिकात्यन्ताभावाप्रसिद्धया केवलान्वयिनि सम्बन्धभेदेन घटादौ चासिद्धेः । स्वात्यन्ताभावयावदधिकरणावृत्तित्वं वा, स्वात्यन्ताभावयत्किञ्चिदधिकरणावृत्तित्वं वेति विकल्पेन पूर्वो- क्तदोषाच्च । तस्मात् तत्प्रकारान्तरस्य निरूपयितुमशक्यत्वात् मिथ्यात्वाविरोधित्वाञ्च स्वसमानाधिकरणयावदत्यन्ताभावप्र- तियोगित्वाभावरूपमेव सत्त्वमुपेयम् । तच्च न चक्षुरादियोग्य. स्यासत्त्वरूपत्वात् । अस्मन्मतेऽपि स्वदेशकालवृत्तिनिषेधप्रतियोगित्वरूपं तद्द्ब्रहीतुमशक्यम्, तदभावस्य गृहीतत्वादिति बोध्यम् । पूर्वोक्तेति । एतेन–“अत्यन्ताभावसामान्ये यत्प्रतियोगिकत्वयत्सामानाधिकरण्योभया- भावस्तत्त्वं सत्त्वं वाच्यं, तत्सम्बन्धिनि तदभावस्वीकारे तु तत्सम्बन्धाव- च्छिन्नप्रतियोगितासामान्ये यन्निष्ठत्वस्य तत्सम्बन्धावच्छिन्नयद धिकरणता- समानाधिकरणात्यन्ताभावनिरूपितत्वस्य च द्वयोरभावस्तत्वं तत्केवला- न्वयिनि च नाव्याप्तिः, तन्निष्ठत्वस्य स्वरूप सम्बन्धावच्छिन्नतदाघा- रतासमानाधिकरणतात्यन्ताभावनिरूपितत्वस्य च द्वयोः स्वरूपसम्ब- न्धावच्छिन्न प्रतियोगितासामान्ये अभावात्" इति प्रत्युक्तम् ; अघि- करणे यावत्त्व किञ्चित्त्वविकल्पेन तत्रतत्राप्युक्तदोषादुक्तोभयाभावधियः उक्तोभयत्वाघटितमिथ्यात्वविरोधित्वाभावाच्च । स्वसमानेत्यादि । स्वपदं लक्ष्यपरम् | यावदिति तादृशप्रतियोगित्वसामान्याभावाभि- प्रायकम् । तेन तत्तत्प्रतियोगिताविशेषाभावज्ञानस्य मिथ्यात्वबुद्ध्यावरो- मित्वेऽपि न क्षतिः । तथाच घटादिसमानाधिकरणात्यन्ताभावप्रतियोगित्व- 212