सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षबाधोद्धारः 211 वृत्तिनिषेधप्रतियोगिकत्वाभावे गृह्यमाणे कालत्रयमध्ये वर्तमा- नकालस्य सर्वदेशमध्ये प्रकृतदेशस्यापि प्रवेशेन तत्र निषेध- प्रतियोगित्वाभावस्य गृहीतत्वात् तत्संवलितं कालजयवृत्ति परिच्छेदः] 1 सम्बन्धानां अन्यतमावच्छिन्न प्रतियोगिकत्वं तत्तथापि शशविषाणा- दावतिव्याप्तिः । यथा हि भेदप्रतियोगिता न नव्यनये तादात्म्यसम्बन्धा- वच्छिन्ना, तत्त्वे ' मानाभावात् घटत्वादिना मेदस्यैव घटादितादात्म्य - विरोधित्वसम्भवात् । यथावा ध्वंसप्रागभावयोः प्रतियोगिता न केनापि धर्मेण सम्बन्धेनाऽवच्छिन्ना, मानाभावात् तथा तुच्छनिष्ठाप्य- भावप्रतियोगिता न केनापि धर्मेण सम्बन्धेन वा अवच्छिन्ना, माना- भावात्, स्वप्रतियोगिकाभावमात्रेण तुच्छस्य विरोधसम्भवात् । अथैवं तुच्छस्याभावोपि न सिद्धयेत् मानाभावात् तस्यायोग्यत्वेन अप्र- त्यक्षत्वादनुमानस्याप्रयोजकत्वेन अनवतारादिति चेत्, सोयं तुच्छ - वादिनस्तवैवं गर्तपातः । यत्तु अश्वे गोत्वं नाम्तीति प्रतीतिः गोत्वाश्वत्वयोः संसर्गमलीकं निषेधप्रतियोगितया अवगाहत इति अश्वा- द्यवच्छेदेन गोत्वाभावस्य सर्वकालवृत्तित्वात् सर्वकालिकत्वमेवाभावे निवेश्यं, तादृशाभावप्रतियोगिकत्वमसदनिर्वाच्ययोरेव सर्वदेशीयाभावप्रति- योगित्वं घटादावपीति तन्नोक्तमिति मतं, तत्परोक्तमपि गोत्वादेः प्रतियोगित्वानुभवापलापादलीकसंसर्गस्य प्रतियोगित्वेनानुल्लेखाच्चाचार्यैर्न शक्तिम् । न हीत्यादि वृत्तिमत्प्रतियोगि काभावादिकं न प्रत्यक्षं, वृत्तिमान् यद्यत्र स्यात्तदोपलभ्येतेत्यादिरूपापादनासम्भवात् । प्रतियोगिसत्त्वहेतुका- पादन’ योग्योपलब्धिप्रतियोगिकत्वरूपयोग्यतायाः प्रतियोग्यनुपलब्धाव- भावात् वृत्तिमदादेः सत्त्वेप्यतीन्द्रियत्वादिना तदनुपलब्धिसम्भवादिति भावः । तत्संवलितेति । सर्वदेशकालघटितं मिथ्यात्वं, परमते मिथ्यात्व- 1 तत्तत्त्वे. 2 न तर्हीत्यादि. 3 हेतुनापादन. 14*