पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] सोपाधिकत्वभङ्गः मन्यतमत्वेन ' तादात्म्येन उपाधित्वसम्भवात्तदपेक्षया गुरुरूपानुधावनस्य तेऽनुचितत्वात् । अविद्यान्यदोषप्रयुक्तमानत्वानि यावन्ति वस्तुगत्या तावन्निष्ठप्रतियोगिताया लघुना तावदन्यतमत्वेन स्वरूपतोऽवच्छिन्नत्वात् स्वबाघ केत्यादिरूपावच्छिन्न प्रतियोगिताका भावत्वस्य अप्रसिद्धया तेन रूपेण साध्याभावव्याप्यत्वाभावात् स्वबाधकेत्यादिरूपेण व्यापकताप्रा- हकतर्काप्रसरादुपाधित्वासम्भवात् स्वाप्नादिभ्रमे स्वाप्नादिप्रातीतिकस्यापि दोषत्वेन तत्र स्वबाधकजाग्रदादिबोधबाध्यत्वेन साध्या व्यापकत्वाच्चति । एवमुपाध्यन्तरेपि दोषा बोध्याः । यत्तु – “देहात्मैक्ये साध्याव्या- - पकतोक्तिः न युक्ता, मम देह इति देहात्मभेदस्यानुभाविकत्वेन तस्यैवाप्रसिद्धेः । यद्यतिरेकस्येत्याद्यपि न युक्तम्; एकनिष्ठव्याप्य- तायामवच्छेदकयोस्सम्भवे तयोर्लघुनैव अवच्छेद्या सा, न गुरुणा, यथा नीलधूमनिष्ठव्याप्यता घूमत्वेन न नीलधूमत्वेन । न च विशिष्टा- भावे विशेष्यसामान्याभावत्वमस्ति, यन तन्निष्ठव्याप्यता तेनावच्छिद्येत । ईश्वरानुमाने तु शरीरजन्यत्वस्यानुपाधित्वं श्रुत्येश्वरसिद्धौ, पक्ष एव साध्याव्यापकत्वात् । ब्रह्मणीवेत्याद्यपि न युक्तम्; समसत्ताकान्तेन व्यावहारिकबाधाबाध्यस्येत्यस्य वाच्यत्वात् ब्रह्माण क्षणिकत्वादि- ज्ञापकदोषस्याविद्यादिरूपस्य शून्यवाद्युत्थापिततर्कादेर्वा व्यावहारिक- बाधाबाध्यत्वात् । ब्रह्मण एवेत्याद्यपि न युक्तम् ; श्रुतिजन्यप्रमां प्रति विषयत्वस्य प्रपञ्चे अवश्यवाच्यत्वात् धर्मादौ तदनङ्गीकारे तद्- सिद्धयापत्तेः । उक्ता च देवताधिकरणे परै र्देवताविग्रहादिप्रमा श्रुतिजन्या" इति तचुच्छम् ; मनुष्यत्वादिविशिष्टस्य ऐक्यस्यात्म- न्यध्यासस्वीकारेण तत्सत्त्वेऽपि मम देह इत्यनुभवे बाधकाभावा- दहङ्कारस्यापि मन्मते अस्मदर्थत्वेन तद्भेदस्यैवोक्तानुभवविषयत्वसम्भ- वात्, त्वन्मते ममात्मेतिवदभेदस्यैव षष्ठयोल्लेखसम्भवाच्च । अन्यथा 3 पदैः. 1 मनतीतत्त्रेन. 2 साध्यादि. 201 -