पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः नानावि- 5 शुक्तघवच्छिन्नविषयकत्वादिरूपावच्छेदकभेदेन' स्वजनकाज्ञाननिवृत्ति- जनकत्वस्य शुक्तित्वप्रकारकेदं विशेष्यकत्वादिरूपावच्छेदकभेदेन घस्याननुगम:' । पल्लवाज्ञानास्वीकारपक्षे शुक्तिरूप्यादिबाधक ब्रह्मज्ञाना 3- बाध्यदोषाप्रसिद्धिः । यदि च स्वमिथ्यात्वनिश्चयनिश्चित मिथ्यात्वकत्वं तत्तथापि निश्चयस्य तत्तद्धर्मितावच्छेदकादिभेदेन नानात्वादननुगमः | नेह नानास्तीत्यादिश्रुत्यादिजन्येन ईश्वरीयेन वा मिथ्यात्वनिश्चयेन दोषमात्रस्य निश्चितमिथ्यात्वकत्वादे तादृशदोषाप्रसिद्धिः । अथ जनकत्वं तत्त्वं वा अखण्डं न तु स्वावच्छेदकघटितं पल्लवाज्ञानं चास्तीत्यङ्गी- कृत्य आद्य एव पक्षः, दोषभिन्नं यत्स्वभिन्नं तदविशेष्यकमिथ्यात्वनिश्चय- निश्चितमिथ्यात्वकत्वं तदिति पक्षो वा ग्राह्यः । उक्तश्रुतिजन्यादि- मिथ्यात्वनिश्चयस्तु स्वभिन्नविशेष्यकः । स्वभिन्ना 'विशेष्यकामथ्यात्वानश्च- यनिश्चितमिथ्यात्वकदोषप्रयुक्तभानकत्वस्य घटादावपि सत्त्वाद्दोषभिन्नेति । स्वाभन्न यद्दोषभिन्नं तदविशेष्यकेन 'घटाविद्ये मिथ्या' इत्यादिनिश्चयेना- विद्यारूपदोषमिथ्यात्वं निश्चितमिति न घटादौ तदिति चेन्न; तथापि द्वितीयपक्षे शुक्तिरूप्यतज्ज्ञापकदोषौ मिथ्येति निश्चयमादाय साध्याव्याप कत्वाद्यत्र प्रातिभासिकान्तराविशेष्यकं खविशेष्यकं मिथ्यात्वज्ञानं न जातं, तत्रापि साध्याव्यापकत्वाच्च पक्षद्वयेऽपि दोषत्वस्य दोषमात्राननुगतत्वात्, साध्याव्यापकत्वादबाध्यान्तवैयर्थ्याच्च । न चान्यतमत्वेन दोषाणामनु- गमः, अनन्तदोषघटिततया युगसहस्रेणापि दुर्जेयत्वापत्तेः । न च स्वरूपतोऽन्यतमत्वं निवेश्यमिति वाच्यम्; त्वन्मते तस्य स्वरूपतो ज्ञेयत्वे गोत्वादिजात्यपलापापत्तेः तावद्व्यक्तचन्यतमत्वस्यैव तत्त्वसम्भ वादविद्यान्यदोषाणामन्यतमत्वस्यैव निवेशसम्भवेन अबाध्यांश' वैयर्थ्यात्, साध्यव्यापकत्वस्य तेन रूपेण ग्राहकतर्काभावादन्यथाप्रातीतिकाना- ' 200 1 त्वाद्रूपावच्छेदेन भेदेन. 2 स्यानागमः 6 स्वभिन्न, तमिथ्याकत्वं 5 पक्षो नायुक्तः. 3 बाधकज्ञाना, 4 निश्चयानिश्चि- 7 साध्यत्वान्त.