पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] परिच्छिन्नत्वविचारः 179 - , कस्याद्रव्येऽपि सम्भवात् । उक्तं हि पदार्थखण्डने – “ ईश्वरस्य परिमाणवत्त्वे मानाभावः, द्रव्यत्वस्य तृटित्वादेरिव परिमाणासाधक- त्वात् । रूपादीनां च नेन्द्रियायोग्यत्वं मानाभावात्, अतीन्द्रिया- नन्तस्पर्शकल्पने गौरवात् न स्पर्शवत्त्वेन द्रव्यसमवायित्वं, किन्तु जातिविशेषेण " । तट्टीकायां चोक्तं रामभद्र सार्वभौमैः–'एवमीश्वरे जीवे च द्रव्यत्वे संयोगादौ च मानाभावः, आत्ममनोयोगादे: हेतुत्वेऽपि न मानम्' इत्यादि । जन्यमात्रं प्रति द्रव्यत्वेन परिणामिकारणत्वेऽपि न क्षतिः । अन्यूनसत्ताकत्वे च यथाव्याख्याते न कोऽपि दोष इति । यदपि देशकालयोः कुत्रापि नात्यन्ताभावः, स्वस्मिन्नपि सत्त्वादित्यायुक्तं; तच्छोभतेतरां, देशकालान्तरयोः देशकालात्यन्ताभावसत्त्वात् स्वस्मिन् स्वसत्त्वस्य विरुद्धत्वात् देशकालान्तरस्यैव देशकालयोः सम्बन्ध- प्रतीतेः । यदपि प्रमेयत्वादेः स्वस्मिन् वृत्तिरित्युक्तं दृष्टान्ततया, तदपि न ; प्रमेयत्वान्तरमादायैव प्रमेयत्वं प्रमेयमित्यादिबुद्धयुपपत्तेः 1 किंच प्रमेयत्वादेरेकस्य सर्व सम्बन्धित्वेऽपि न देशकालयोरेकैकयोः तथात्वं, अविद्यारूपयोस्तयोस्तदिति चेन्न; अविद्यायाः तादात्म्यादि- सम्बन्धेन स्वस्मिन् जीवेशभेदादौ चाभावात् । न हि घटाभावे घटो नास्तीतिवदविद्या स्वस्मिन् अस्तीति धीरस्ति । सर्वत्र देशकाल स्त इति धीस्तु सर्व दृश्यं विनाशीतिवत् सर्वत्र नैकसम्बन्धविषयिका || सारस्वतैस्तर्करत्नैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तखण्डानामखण्डि मितताहुतिः ॥ इति परिच्छिन्नत्वनिरुक्तिः 1 रेकस्यासर्व. 2 जीवेशभेदाभेदौ च भावात्. 12 +