पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

162 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः यावन्तो विशेष्यवृत्तिव्यतिरेकघर्माः तत्तदाश्रयविशेष्यकत्वे सति घटत्व- प्रकारकत्वेन जन्यत्वापत्त्या अनन्तहेतुत्वापत्तेः । भवतु वा प्रमात्व- मेव जन्यतावच्छेदकम् । तथापि शाब्दादिप्रमात्वं न तथा, शाब्द- ज्ञानप्रमासामान्यसामग्रीभ्यां तदवच्छिन्नस्यार्थसमाजसिद्धत्वात्" इत्यादि । उत्पत्तिवादे अस्तु वेत्यादिमणौ मिश्रैरप्युक्तं – 'सर्वकार्यप्रमासाधा- रणमीश्वरीयज्ञानमेव गुणः' इत्यादि । एवं 'यदि प्रमात्वा 'समा- नाधिकरणधर्मनिरूपितकार्यत्वप्रतियोगिककारणजन्या न स्यात् अप्रमा स्यात्' इत्यादिमणौ ईश्वरज्ञानं तु न प्रमेत्युक्तम् । प्रमामात्रे नानुगतो गुण इत्यत्रोक्तम् । अस्मन्मते त्वनुगत एव स साधारणोऽस्तीति । उद- यनाचार्येस्तु - "ननु नेश्वरज्ञानं प्रमा, नित्यत्वेनाफलत्वात्" इत्याशङ्कय -- “ मितिस्सम्यक्पार ((च्छत्ति ) ज्ञप्तिस्तद्वत्ता च प्रमातृता । तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते । समीचीनो ह्यनुभवः सा प्रमेति व्यवस्थितम् ॥ " तथाच नित्यत्वेन' विशेषणमनर्थकम् । यद्येवं ' आप्त' प्रामाण्यात्' इति गौतमसूत्रविरोधः । तेन ईश्वरे प्रामाण्यमावेदितं न तु प्रमातृत्वमिति चेन्न; प्रमासमवायित्वेन प्रमातृत्वस्येव प्रमाया अयोगव्यवच्छेदेन प्रमाणत्वस्यापि सम्भवात्" इत्यादिकं कुसुमाञ्जलिचतुर्थस्तबकान्ते उक्तम् । तत् प्रौढिमात्रम् ; उक्तयुक्तेरनित्यत्व विशेषणसार्थक्यात्, उक्त- सूत्रे ईश्वरस्य वेदार्थप्रमावत्त्वेन तदुक्तवेदस्य प्रामाण्यं यदुक्तं तत्रा- नित्यत्वाविशेषितमेव प्रमात्वमुपयुज्यत इत्येतत्परत्वाच्च, सौत्रप्रमाशब्दस्य जन्यत्वघटितमुख्यार्यैकदेशेन अजन्यज्ञाने प्रवृत्तिसम्भवपरत्वाच्च । अत एव प्रमाया अयोगव्यवच्छिन्नत्वे सति कारणत्वरूपस्य मुख्यार्थस्य एकदेशेन प्रमायोगव्यवच्छेदेन सौत्रप्रमाणशब्दो भगवति वर्तते । न चैतावता लक्षणा, प्रमाप्रमात्वा 1 2 अनित्यत्वेन. 3 आय. 4 रनित्यार्थ.