पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] जडत्वानरुक्तिः - कत्वात् । किंच प्रमामात्र इत्यादि मणिवाक्यं प्रमात्वसामान्यस्य जन्यतावच्छेदकत्वाभिप्रायकमेव । तार्किकशिरोमण्यादिभिः तथैव व्याख्यातत्वात् । तथाहि – “ यद्यपि प्रमासामान्ये अनुगतो गुणो नान्वयव्यतिरेकासद्धः; तथापि प्रमाविशेषे गुणविशेषाणामन्वयव्यति- रेकाभ्यां हेतुत्वे सिद्धे बाघकाभावात् प्रमासामान्येऽपि तेषां तत्सेत्स्यतीत्यभिप्रेत्य समाधत्ते – 'प्रमामात्रे नानुगतो गुणः किन्तु तत्तत्प्रमायां भूयोऽवयवेन्द्रियसन्निकर्षयथार्थलिङ्गसादृश्यवाक्यार्थज्ञानानां यथायथं गुणत्वम्' इति । तथाच प्रमात्वघटितधर्मावच्छिन्नकार्यता- निरूपित कारणतावत्त्वेन प्रमासामान्ये कारणत्त्वम् । एतेन दोषोऽपि व्याख्यातः । तत्प्रमासामान्ये ईश्वरीयं तद्विशिष्टज्ञानं हेतुः । तदभावः भ्रमसामान्ये, दोषोपि तदेव । वस्तुतो विशेषणसंसृष्टासंसृष्टविशेष्य- ज्ञाने गुणदोषौ, लौकिकसन्निकर्षवत् सामान्यलक्षणाडाप निर्विकल्पक- जननी विशेष्यसंसृष्टासंसृष्टविशेषणज्ञाने वा तौ, तेनाप्रसिद्धसाध्य- कानुमितिस्वीकारेऽपि न क्षतिः " इत्यादि शिरोमणिनोक्तम् । यत्तु – “ प्रमात्वसामान्यस्य जन्यतावच्छेदकत्वे प्रत्यक्षादिप्रमात्वं न भूयोवय सन्निकर्षादिजन्यतावच्छेदकं, प्रत्यक्षस्य प्रमासामान्यस्य च सामग्रीभ्यां तदवच्छिन्नस्यार्थसमाजसिद्धत्वात् । अतः प्रमामात्रे नानुगतो गुण इति" इति विद्यावागीशैर्व्याख्यातं तदापाततो ग्रन्थलापनमात्रम् । प्रमात्वसामान्यस्य जन्यतावच्छेदकत्वेऽपि अर्थसमाजसिद्धत्वस्य दुर्वा - रत्वात् । उक्तं हि कुसुमाञ्जलिटीकायां तैरेव – “घटत्ववद्विशेष्यक त्यादि न कार्यतावच्छेदकं, अर्थसमाजसिद्धत्वात् । तद्विशेष्यकज्ञाने तद्भानसामग्री, तत्प्रकारकज्ञाने च तज्ज्ञानं, 2 विषेयताख्यतत्प्रकारता- कज्ञाने च तदसंसर्गाग्रहादिर्हेतुः । तद्व्यक्तिप्रकारतानिरूपिततद्व्यक्ति- विशेष्यता के हि संसर्गा' ग्रह सामान्यप्रत्यासत्तिरेव तथा । अन्यथा 1 वच्छेदकत्वेन. 2 तदशानं. 3 चासंसर्गा. 1 A.S.V. , 11 161