पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] सत्तात्रैविध्योपपत्तिः स्यात् — इति, तन्न; स्वरूपोपलक्षणोपलाक्षतस्वरूप विषयकव्या- वृत्ताकारज्ञानस्यैव निष्प्रकारकत्वेऽपि बाधकत्वमित्यस्यापि प्रागे- वोक्तत्वात् । स्वरूपोपलक्षणनिबन्धनव्यावृत्ताकारत्वेऽपि यथा नाखण्डार्थत्वक्षतिः, तदप्युक्तमधस्तात् । ननु - व्यावहारिकप्राति- भासिकयोर्बाध्यत्वाविशेषे किंनिबन्धनो भेदः, न तावन्मायि- 189 संभवात्स्वरूपत्वेन निषेध्यत्वमादाय मिथ्यात्वलक्षणसंभवादित्यायुक्तम् । प्रागेवेति । यत्र धर्मान्तरमुपलक्ष्यते तत्रैव सप्रकारकत्वनियमो यथा काकवन्त इत्यादावुत्तॄणत्वादि, यत्र तु व्यक्तिस्वरूपमुपलक्ष्यते तत्र न तथा यथाऽऽकाशादिपदजन्यनिर्विकल्पोपस्थितौ व्यक्तिस्वरूपमात्र. मुपलक्ष्यत इत्याद्युक्तम् ॥ , यत्तु – प्रातीतिकमात्रवृत्तिरजतत्वादौ मानाभावः; दोषादीनां सामानाधिकरण्यसंबन्धेन स्वविशिष्टं प्रत्येव हेतुत्वसंभवात्, प्रातीतिक- व्यक्तिसंबन्धित्वेन प्रातीतिकत्वस्योभयानुगतजातौ संभवेन प्रमाणावेद्य- त्वसंभवाच्च । किंचोक्तमानबलेन रजतत्वादित्रैविध्येऽप्याकाशादिमात्र- गतसत्यतायां मानाभाव इति, तन्न; स्वविशिष्टत्वस्य नित्यसाधारणत्वेन दोषादिजन्यतानवच्छदकत्वात् । न च – तत्तद्व्यक्तित्वमेव तत्तज्जन्यता- वच्छेदकमस्त्विति–वाच्यम् ; चिरमनुवर्तमानेन तत्तद्दोषेण जनितरजता- दिव्यक्तेर्भ्रमान्तरेण विलयेऽपि पुना रजतव्यक्तयन्तरोत्पादात्तत्तद्व्यक्तित्वेन तत्कार्यत्वे गौरवात् । नित्यसाधारण्यवारणाय कालिकसंबन्धोऽपि वैशि- ष्ट्यघटकतया निवेश्य इति – चेन्न; कालिकसंबन्धेन घटत्वादिमद्य- दोषादिसमानाधिकरणं तत्त्वेन जन्यतामादाय विनिगमनाविरहात्- कल्प्येन प्रातीतिकमात्रगतसामान्येन विनिगमनाविरहाभावात् आका- शादिमात्रगतसत्यतायां तु 'सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्य'