पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

186 सव्याख्यायामद्वैतसिद्धी [प्रथमः - तात्त्विकस्य ब्रह्मणोऽताविकाच्छुक्तिरूप्याद्वाधाधिगम्यस्य विभा गस्य कथमतात्त्विकत्वमिति – वाच्यम्; बाधबोध्यत्वं न ताविकत्वे प्रयोजकम्, किंत्वबाध्यत्वम् ; तच्च न ब्रह्माति- रिक्तवृत्ति, नेह नानेत्यादिना बाधात् । न च त्रिविधसत्त्वाङ्गी- कारे ब्रह्मैव सदिति स्वमतविरोधः; तस्य परमार्थसह्मैवेत्येत- त्परत्वात् । एतेन – विश्वमिथ्यात्वब्रह्मनिर्विशेषत्वादाव प्येवं विकल्प्य दूषणमिति -- अपास्तम् । ननु अत्र परमार्थसदेव सदितरद्वयं सद्विलक्षणमेव सत्त्वेन भाति, बाधविलम्बाविलम्बाभ्यां तद्भेद इत्यभिप्रेतम्, उत वा सत्त्वस्यैवावान्तर भेद इति । नाद्यः; त्वन्मते रूप्याभावे रूप्यधीरिव सवाभावे सत्त्वबुद्धेरयोगात् । कदाचिदपि सच्चाभावे तुच्छवदुत्पत्याद्ययोगात्, व्यावहारिके प्रातिभासिकादर्थंगतविशेषाभावेन तत्राऽर्थक्रियादेः श्रुतीनां तद्वि- षयत्वेन प्रामाण्यस्य चायुक्त्यापातात् । प्रत्युत नभोनैल्यभ्रम- हेतोरिवार्थभ्रान्तिहेतुत्वेनाप्रामाण्यनिश्चय एव स्यात् । नान्त्यः; आरोपितानारोपितसाधारणसामान्यधर्माभावात्, व्यावहारिक - त्त्विक इति – वाच्यम्; अच्छायमित्यादिसमभिव्याहारात् अस्थूल मित्यादेः स्थूलाद्यन्ताभाववदर्थकत्वादखण्डार्थकत्वाञ्च । नेह ना- नेति । एतद्वाक्यस्यार्थान्तरवर्णनं तु शतधा दूषितम् । तुच्छवदिति । कार्यमात्रस्येति शेषः । प्रातिभासिकादित्यादि । व्यावहारिक विषयकज्ञानम्य प्रातीतिकज्ञानापेक्षयार्थगतस्य विशेषस्या- भावेन व्यावहारिकज्ञानादेवार्थक्रियाविशेषः । मिथ्याभूतव्यावहारिक- विषयत्वेऽपि ज्योतिष्टोमादिश्रुतीनां प्रामाणिकत्वमित्ययुक्तमिति भावः । अयुक्त्यापतात् अयुक्तत्वापातात् । अप्रामाण्यनिश्चय इति । 1 विषयकत्वेपि - क. ग.