पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] सत्तात्रैविध्योपपत्तिः 185 - वच्छिन्नमेव चैतन्यमिति वक्ष्यते । अविद्यानिवृत्तेः पञ्चम- प्रकारतापक्षे संसारकालीनसत्त्वस्यैवार्य विभाग इति न न्यूनता । यद्वा – अविद्यानिवृत्तेः सवाभावेन सत्त्वविभागे न तदसमूह- निबन्धनो दोषः । वस्तुतस्तु – अविद्यानिवृत्तिर्ब्रह्मस्वरूपा अनि र्वचनीया वेति न विभागन्यूनता । न च - विभागस्य तात्त्विकत्वेऽपसिद्धान्तः, अतात्विकत्वे त्रिविधत्वं गतमेवेति- वाच्यम्; ब्रह्मातिरिक्तमताविकमिति वदतो विभागातात्विक त्वस्येष्टत्वात् । न च तर्हि तात्त्विकत्रैविध्यहानिः; कोहि त्रैवि- ध्यस्य तान्त्रिकत्वं ब्रवीति ? किंतु व्यावहारिकत्वमेव । न च तचुच्छम् ; जाग्रत्कालेऽपि शुक्तिरूप्या दुक्तोत्कर्षस्येदमंशे सत्त्वेन जाग्र- च्छुक्तिरूप्यापेक्षया स्वामशुक्तिरूप्यस्य तावताप्यपकर्षाप्रतिपादनेन प्रकृ तानुपयोगात् । न हि जाग्रमबाघकेनेदमंशः स्वरूपेण बाध्यते, किंतु संसृष्टतया; तथा बाध्यत्वं तु स्वाप्नेदमंशेऽपि वाच्यम्, अन्यथा जाग्रमेऽपीदमंशे तन्न स्यादविशेषात् । किंच स्वाप्नेदमंशः कथ- मबाध्यः ? ' स्वप्नदृष्टं सर्व मिथ्ये' त्यनुभवात्, बहिःस्थस्येदमंशस्य सन्निकर्षाभावेनापरोक्ष्यानुपपत्त्या रूप्यादिवत्तस्याप्युत्पत्त्यावश्यकत्वेना- विद्यकत्वनिश्चयाच्च । संसारेति । मुक्त कालीनब्रह्मसत्त्वा सङ्ग्रहोक्तिस्तु शोभते ; तस्य संसारकालेऽपि सत्त्वेन सङ्ग्रहानपायात् । सत्त्वाभावे- नेति । न च तस्यास्तुच्छत्वापत्तिः; उत्पत्त्यादिमत्त्वात् । ब्रह्म- स्वरूपेति । ज्ञानसाध्यत्वं नाशमात्रस्याधिकरणस्वरूपत्वम् ; , अत एबोपपादितं मण्डनमनुरुध्याह - अनिर्वचनीया वेति । अविद्यायास्तु स्वकालीनकार्य प्रत्युपादानत्वमित्यायुक्तम् । इष्टत्वा दिति । न चास्थूलमित्यादिश्रुत्युक्तत्वेन भेदरूपो विभागस्ता- 1 मुक्ति-ग. -