पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] भ्रमस्य वृत्तिद्वयोपपत्तिः 177 भ्रमरूण्यभ्रमयोरापत्तेरिति वाच्यम् ; दोषाणां स्वाश्रय एवाति- शयजनकत्वमित्यस्यैवासिद्धेर्नियामकाभावात् । न चोक्ताति- प्रसङ्गो नियामकः; स्वसंबन्धिनि कार्यजनकत्वाङ्गीकारेणानति- प्रसङ्गात् | संबन्धश्च स्वाश्रयजन्यज्ञानविषयत्वरूपः । स च न तदेति संस्कारविषयग्राहीन्द्रियजन्याधिष्ठानज्ञानस्यापरोक्षभ्रमहे- तुत्वान्त्वचा गृहीते तदभावात् सादृश्यं गृहीत्वा चक्षुर्निमीलन- स्थले इदंवृत्तिसद्भावे प्रमाणाभावेन नातिप्रसापादनं शक्यम् | तत्सत्त्वे इष्टापत्तिरेव । नन्वेवं – वृत्तिभेदे ज्ञानैक्यानुभव- विरोधः, नचाध्यस्तेनाभेदेन विषययोरेकतापन्नत्वाज्ज्ञानयो- गृहीते सादृश्ये इदं रूप्यमिति भ्रमस्य निमीलितचक्षुष्के आपत्तश्चेत्यर्थः । रूप्य सादृश्य चाक्षुषस्य जनकतासंबन्धेन संयोगसंबन्धेन वाऽऽश्रयश्चक्षुः | तदजन्येऽपि ज्ञाने भ्रमत्वमुक्तचाक्षुषप्रयोज्यं स्यादिति भावः । नियाम- काभावादिति । यथानुभवं कार्यजनकत्वं कल्प्यत इति भावः । स च न तदेति । पित्तदोषाश्रयचक्षुर्जन्यज्ञान विशेष्यत्वसंबन्धश्च त्वङ्मात्रेण शङ्ख ग्रहणकाले नास्तीत्यर्थः । ननु – धर्मीन्द्रिय सन्निकर्ष एवेन्द्रियभ्रमहेतुः; अन्यथा शङ्खादौ रूपाद्यविषयक चाक्षुषाद्यसंभवात् श्वेतरूपादेश्च पीतत्वा- दिभ्रमस्थले ग्रहणाभावात्, पीतत्वादिभ्रमपूर्वं शङ्खादिचाक्षुषाद्यसंभवात्, न च पीतरूपशङ्खयोर्वैशिष्ट्य मगृह्वत्तदुभयविषयकचाक्षुषं भ्रमपूर्व जायताम्; अत एव द्रव्यत्व' रूपाणां निर्विकल्पकं तार्किका दिसंमतमिति–वाच्यम् ; तावतापि नियमेन भ्रमपूर्वमुक्तचाक्षुषोत्पत्तौ मानाभावात् युगपदेव तादृशचाक्षुषभ्रमयोः संभवात्, तथा च स्वाश्रयजन्यज्ञानविषयता- संबन्धेन दोषस्य हेतुत्वसंभवस्तत्राह-संस्कारविषयग्राहीति | संस्का- रहेत्वनुभवजनकेत्यर्थः । भ्रमहेतुत्वात् भ्रमव्यवहारप्रयोजकत्वात् । 1 द्रव्यरूपत्व - क. ग. A VOL III. , 12 -