पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ 176 [प्रथमः - वस्था; अविद्यावृत्तिप्रतिभासके चैतन्येऽविद्यावृत्ते: स्वत एवो- पाधित्वेन वृत्यन्तरानपेक्षत्वात् । ननु – अज्ञानस्य रूप्याकार- ज्ञानात्मना परिणामे रूप्यमिति प्रतीतेर्ज्ञानगताकारेणैवोपपत्ता- वतीतविषयकज्ञानन्यायेन वोपपत्तौ रूप्यरूपाविद्यापरिणाम- कल्पना न युक्तेति – चेन्न; ज्ञानाकारेणैव मविषयकत्वे साकार- वादप्रसङ्गात् । अतीतविषयवदुपपादनेऽप्यपरोक्षत्वानुपपत्तेरुक्त- त्वात् । न च – दोषाणां स्वाश्रय एवातिशयहेतुत्वेन चक्षुर्गत- दोषजन्यो भ्रमः कथमचाक्षुषः स्यात् ? अन्यथा त्वचा गृहीते शङ्खे चक्षुषा गृहीते रूप्यसादृश्ये च निमीलितचक्षुषोऽपि पीत- प्रतिभासके चैतन्य इति । चैतन्यमेव प्रतिभासकं वृत्तिस्तु विद्यमाना सती तद्व्यावर्तिकेत्युपाधिः । तथा च म्वोपहितचितापि वृत्तेर्भास्यत्वसंभवान्न वृत्त्यन्तरापक्षेति भावः । -● यत्तु –· वृत्तेः प्रातितिकसत्त्वात्स्वोपहितप्रतीतौ सत्यां सत्त्वम्, सत्त्वे चोपाधित्वमित्यन्योन्याश्रय इति तच्छोभते ? न ह्युपाघित्वसिद्धि- सापेक्षं सत्त्वं ब्रमः; येनोपाधित्वसत्त्वेऽन्यान्यमाश्रयतः' । किन्तु यया वृत्त्या संबद्धा चिद्भासिका तस्या विद्यमानत्वे सति व्यावर्त- कत्वरूप मुपाधिकत्वमिति । उक्तत्वादिति । अपरोक्षत्वं न ज्ञानगतोऽ- खण्डावशेषः; साकारवादापत्ते, अनावृतचित्संबन्धस्यैव सुखादाव- परोक्षत्वरूपतया क्लृप्तत्त्वात् । अन्यथा विलक्षणवृत्तिविषयत्वस्य सुखादौ कल्पने गौरवादुक्तसंबन्धेनैवोपपत्तौ ज्ञानगतापरोक्षत्वरूपाखण्डधर्मे माना- भावादित्यायुक्तमिति भावः । स्वाश्रये म्वाश्रयजन्ये । अतिशय- हेतुत्वेन भ्रमत्वादिरूपातिशयप्रयोजकत्वेन | त्वचा गृहीते शङ्ख इत्यादि । त्वचा गृहीते शङ्ख शङ्खः पीत इति भ्रमस्यापत्तेश्चक्षुषा 1 माश्रयः - ग.