170 सव्याख्यायामद्वैतसिद्धौ [प्रथम - दिनात्रापि संभवात् । अज्ञानावच्छेदकतया इदमंशे इदमंशा नुविद्धतया प्रतीतिरेव तदनुविद्धतया प्रतीतिः । कार्यकारण योरभेदादकुलिनिर्देशादिकमप्युपपद्यते । न च – परोक्षज्ञानस्या प्यज्ञाननाशकतया श्वैत्यानुमित्या अज्ञाने नाशिते पीतभ्रमानु दयः स्यात्, उपादानाभावादिति – वाच्यम् ; विषयगताज्ञा नस्य परोक्षवृत्त्याऽनाशात् । न चापरोक्षवृत्तेरज्ञाननाशकताया मपि 'घटोऽय' मिति साक्षात्कृते पटोऽयमिति वाक्याभासाद्ध मानुत्पत्तिप्रसङ्गः । न ह्यत्र 'वह्निना सिञ्चती 'त्यत्रेवान्वयवि रोभ्युपस्थितिरस्ति, येनेष्टापत्तिरवकाशमासादयेदिति-चाच्यम् यदा हि घटत्वं पटत्वविरुद्धतयाऽवगतम्, तदा हि तदर्शन विराोधदर्शनमेवेति कथं नेष्टापत्त्यवकाशः ? यदा घटत्व कपालं घटोपादानमित्यजानतो यथा कपालं घट इति न धीः, तथा ज्ञानमुपादानमित्यजानतो रूप्यमज्ञानमिति न धीः । नचाज्ञाने साक्षि भास्ये तादात्म्येन रूप्यादेः सत्त्वात्तयोस्तादात्म्यं साक्षिणा गृह्यतामिति वाच्यम् ; अननुभवबलेनैव तस्यावृतत्वकल्पनात्प्रमाणवृत्त्यैव तद्ग्रहा त्पुरोवर्तितादात्म्यस्याज्ञानतादात्म्याभावव्याप्यत्वेन गृहीतस्य ग्रहाल्लो कानां तद्गुहासंभवाच्च । विचारकाले तु यद्रूप्यमभात्तदविद्येति ग्रह स्त्विष्ट एवेति भावः । अभेदादिति । इदमः कारणीभूतचिदवच्छे दकत्वात्तत्रेति शेषः । अनाशादिति । ननु – श्वेतत्वाज्ञाने सति श्वेत शङ्खार्थिप्रवृत्तिर्न म्यादिति – चेन्न स्यादेव ; न हि श्वेतत्वाप्रत्यक्षेश्व त्वप्रकारिका प्रवृत्तिः, किंतु शत्वादिप्रकारिका प्रवृत्तिः । यदि · तत्र श्वेतत्वप्रकारिका प्रवृत्तिरिति सशपथं ब्रवीषि, तदासत्त्वापादक ज्ञानाभाव एव प्रवर्तकोऽस्तु | पटत्वावरुद्धतया पटत्वाभावव्याप्यतया तद्दर्शनं इदंत्वविशिष्टं तद्दर्शनम् । विरोधि अयं पट इति भ्रमविरोधि - । ·
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११३७
दिखावट