पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आविद्यक रजतोत्पत्त्युपपत्तिः 169 न विस्मर्तव्यम्। न च सोपादानत्वे सकर्तृकत्वापत्तिः ; इष्टापत्तेः । ननु – एवमपि रूप्यस्य कथमज्ञानमुपादानम् ? तदनुविद्धतया अप्रतीतेः, इदमंशानुविद्धतया प्रतीतेरकुलिनिर्देशाच्चेलाञ्चलबन्ध- नादितवेदमंश एव सत्यविकाराविरोधेन मिथ्याविकारात्मना विवर्तत इत्यङ्गीक्रियतामिति – चेन्न; शुक्तयज्ञानस्य तावद- न्वयव्यतिरेकाभ्यां कारणत्वमावश्यकमित्युपादानमपि तदेवास्तु; तत्कल्पनाया एवाभ्यर्हितत्वात, उपादानान्तरासिद्धेः । किंच शुक्तिज्ञानमज्ञानं नाशयद्रष्यमपि नाशयति । तच्च तदुपा- दानत्वं विना न घटते ; निमित्तनाशस्य कार्यनाशं प्रत्यप्र- योजकत्वात् । उपादेये उपादानानुवेधनियमाभावात् । 'रूपं घट: ' 'कपालं घट' इत्यप्रतीतेः कथंचिदनुवेधस्य जडत्वा- वति ; भ्रमोत्पत्ते पर्व सन्निकर्षाद्यसंभवादिति – चेन्न; मन्मत हि रूप्यत्वादिजातर्थ्यावहारिकव्यक्तिसंसृष्टतयैव प्रमाणवेद्यत्वनियमेन प्रा- तीतिक व्यक्तिससृष्टतया साक्षिमात्रवेद्यता । अथवा - रूप्यत्वादिरूपेण संस्कारस्य पूर्वं सत्त्वेन रूप्यत्वाद्यंशे स्मृतिरूपैव वृत्तिरिति ध्येयम् || " इष्टापत्तेरिति । अधिष्ठानप्रकाशत्वेन हेतुत्वात्तद्वत एव कर्तृ- त्वम् ; कार्यानुकूलम्योपादानप्रकाशस्यैव हि लाघवेन कर्तृत्वरूपत्वम्, अनुकूलताविशेषोपादानान्नातिप्रसङ्ग न तूपादानगोचरज्ञानेच्छाकृति- मत्त्वम्य; तथास्वीकारेपीश्वरे तदम्तीति भावः । अभ्यार्हतत्वात् । आश्रयत्वेनान्तरङ्गत्वात् । इदमंशम्य मनसो दोषम्य वोपादानत्वमित्यत्र विनिगमकाभावादुपादानत्वेनातिरिक्तमज्ञानं कल्प्यत इत्यादि पूर्वोक्तं स्मर्तव्यम् । नाशयति अत्यन्तमुच्छिनत्ति । तदुपादानं अज्ञान- मुपादानम् | कार्यनाशं कार्यात्यन्तोच्छेदम् । तेन दोषादिनिमित्तना- शस्य भ्रमादिनाशप्रयोजकत्वेऽपि न क्षतिः । कपालं घट इति । .