पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] तृतीयमिथ्यात्वनिरूपणम् 93 दृष्टिसृष्टिपक्षे उक्तावरणस्याप्यस्वकाराच्च । अथैवमपि घटत्वक पालिका- त्वयोः भिन्नकालीनत्वात् तद्विशिष्टयोः न तादात्म्यं किंतु तदुपलक्षित- योरिति चेत्, सत्यं ; अतएव घटो यः स्थितः स इदानीं कपालिका, बालो यः स्थितः स इदानीं युवेत्यादिरेव अनुभवः न तु घटः कपालिका इत्यादिः । अतएव घटः प्रमेयः नीलो घटः इत्याद्यनुभवयोः घटत्वादिविशिष्टे प्रमेयादेः नीलत्वायुपहिते घटस्य च अभेदभानात् उक्तानुभवाद्वैलक्षण्यम् । भाष्यादौ चायमर्थः स्फुटः • भावे चोपलब्धेः ' इति सूत्रे हि द्रव्यस्य भावाभावाभ्यां गुणादेः सयोर्दर्शनात् द्रव्यमेव संस्थानभेदाद्गुणाद्यने कधीशब्दभाक् । यथैको बाल्या दिभेदेनेत्युक्तम् । यत्तु तदुत्तरमेवं सति सांख्य सिद्धान्त इति काणादं प्रत्युक्तं, तत्सत्यताद्यङ्गीकारे, तत्त्यागे तु वेदान्तसिद्धान्तः | अतएव सम्बन्धतद्वतोरेकत्वेऽपि स्वरूपबाह्यरूपापेक्षया घटस्संयोग इत्यादिधीशब्दाः । यथा एकस्मिन् मनुष्यो ब्राह्मण इत्यादिः । न हि कार्यकारणयोः भेदः आश्रिताश्रयत्व वा वेदान्तिभिरभ्युपगम्यते, कार- णस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमादिति तत्रैव पश्चादुक्तम् । तत्र घटत्वविशिष्टं प्रति स्वरूपं घटत्वाद्यवच्छिन्न प्रतियोगिता कभेदानुयोगिता- नवच्छेदकं घटत्वाद्येव बाह्यरूपं तदन्यत्संयोगद्रव्यत्वादि । 'भावाञ्चोप- लब्धे: ' इति सूत्रे तन्तुव्यतिरेकेण कार्य न, किन्तु तन्तव एवातान- वितानवन्तः पट इत्युक्त्ता तर्ह्यातानवितानरूपसंयोगा एव जायन्त इति कार्यस्य पूर्वमसत्त्वापत्तिरिति हृद्याशङ्कय मूलकारणपर्यन्तमेषा रीतिः न किंचित् जायते न्यायसाम्यादित्यभिप्रायकं तन्तुष्वंशव इत्यादिक मुक्तम् । भामत्यां च ' तत्रैकत्वं वनवत्' इत्युक्तम् । 'सत्त्वाच्चा- वरस्य' इति सूत्रे पूर्व कारणात्मनैव कार्यस्य अवरकालीनस्य सत्त्वात् कारणानन्यत्वमुक्तम् । ‘युक्तेश्शब्दान्तराच्च' इति सूत्रे कारणव्या- पारवैयर्थ्यमाशङ्कय नैषदोषः कार्याकारेण कारणव्यवस्थापकत्वात् , -