पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः विद्यासम्बन्धो घटाद्युत्पत्तिरिति वाच्यं ; तत्र तत्तत्क्षणत्वादीनामनादि- तत्तदविद्यारूपतया तद्विशिष्टमूला विद्यारूपक्षणानामप्यनादित्वात् तत्त- दवच्छिन्नसम्बन्धस्योत्पत्तित्वं न युक्तमिति चेत्, न । अन्येषु तत्त- त्क्षणव्यक्तित्वसंबन्धेषु अन्यक्षणव्यक्तित्व सम्बन्धोऽवच्छेदकः तत्राप्य- न्यक्षणव्यक्तित्वसम्बन्धः अवच्छेदकः इत्यविद्यारूपतत्तत्क्षणव्यक्तित्वा- नामनन्तत्वेनैकैकस्य सम्बन्धे अपरस्यापरस्य सम्बन्धोऽवच्छेदक इत्य- दोषात् । तार्किकादिमतेऽपि स्वजन्य विभागप्रागभाववैशिष्ट्यरूपतत्तत्क्ष- णत्वानां क्रियानिष्ठानां मीमांसकनव्यतार्किकयोरिव सांख्यादीनां मतेऽपि क्षणानां क्षणिकानां पूर्व सतां उत्पत्तिः, इति विशेषः । तथा- चानादिघटत्वादिरूपपल्लवाविद्यासम्बद्धानां तत्तत्क्षणावच्छिन्नत्वमेव मूला- विद्यारूपत्वेनानादिघटादीनामभिव्यक्ति सांख्यादिसम्मता । भिव्यक्तिः पूर्वमसतीति चेदसत्कार्यवादापत्तिः सतीति चेत्तस्या अप्य भिव्यक्तिरेवं तस्या अपीत्यनवस्था इत्याशङ्कय परेषामुत्पत्तिवददोष इति तत्त्वकौमुद्यां समाहितम् । एवंच परेषामुत्पत्तिरसती तस्याः उत्प- त्तिरपि सैव युगपत् क्षणद्वयस्य मानाभावेनानङ्गीकारात्, क्षणान्त- रसम्बन्धे तदुत्पत्तित्वस्य वक्तुमशक्यत्वात् । अतो नानवस्था | तथाऽस्माकं अगत्या पूर्व असती अभिव्यक्तिः सैव च तस्याः अभिव्य- क्तिरिति नोक्तदोषः । अतएव प्रतिक्षणं परिणामिनो तवा- 92

भावाः शुद्धे चिति शक्तिरिति सांख्यादीसिद्धान्तः । क्षणविशिष्ट रूपेण चिदन्यस्योत्पत्तिसम्भवात् । चितस्तु नोक्त रूपेणाप्युत्पत्तिरसङ्गत्वे- नोक्तरूपस्यैवाभावादिति भावः । अविद्यादीनां स्वरूपेणानावृतत्वेऽपि एकविशिष्टमूलाविद्यायाः अपरसम्बन्धांशे आवरणे न दोषः । 'षडस्माकमनादयः' इत्यनादीतरेषां अविद्यारूपत्वाभावेऽप्यक्षतेश्च । 1 अन्ये हि, पा. 2 क्षणविशेष. 6 3 नोत्तर.