पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] निषेधप्रतियोगित्वानुपपत्त्या अनिर्वचनीयत्वसमर्थनम् 149 एव योग्यानुपलब्धिसंभवः, न त्वलीकाभावे । एवं च शशशृङ्गं नास्तीत्युल्लिखन्त्या अपि बुद्धेः शशे शृङ्गा- भाव एव विषयः । गवि शशशृङ्गं नास्तीत्यस्या अपि गवाधिकरणकशृङ्गे शशीयत्वाभावो विषयः; अनन्यगतिकत्वात् । अत एव गोरनन्वयोऽपि नास्ति; शशशृङ्गादेरुपस्थित्यभा- वात् न तदभावग्रह इति तार्किकरीत्योक्तत्वाच्च । अत एव सप्तमे पदार्थत्वनिषेधस्यासंभवात्पदार्थाः षडेवेत्यत्र कुसृष्टि- व्याख्यानम् । न च – 'घटो नास्ती ' ति बुद्धेर्घटसंसर्गाभाव एव विषयः, न तु घटाभावः; पूर्व तत्र घटस्य सत्वेन तदत्यन्ताभावस्याभावात्, प्राक्प्रध्वंसाभावयोः प्रतियोगि । योग्या- व्याप्यत्वात् । अत्र यदि शशशङ्गं स्यात्तदा उपलभ्येतेति तु न सं- भवति; शशशृङ्गस्योक्तव्याप्यत्वाभावादिति समुदायार्थः । ननु - शशशृङ्गं नास्तीत्युल्लेखान्यथानुपपत्या शृङ्गत्वादिरूपेण नुपलब्धिरेव शशशृङ्गाद्यभावग्राहिका; तत्राह – एवं चेति । — अत एव अप्रसिद्धस्याभावबुद्धौ विशेष्यतया विशेषणतया वा प्रतीत्य- संभवादेव । सप्तमे द्रव्यादिषड्भिन्ने । पदार्थत्वनिषेधस्येति । पदार्थाः षडेवेत्यत्र षडित्यस्योद्देश्यत्वे विशेष्यसङ्गतस्यैव कारस्यान्ययोग- व्यवच्छेदबोधकत्वव्युत्पत्त्या द्रव्यादिषडभिन्नेष्वभावेषु पदार्थत्वव्यवच्छेदः पार्थ एव धनुर्धर' इत्यादौ पार्थान्येषु धनुर्धरत्वव्यवच्छेद इव बोध्यः । स चाप्रसिद्धत्वाद्धाधितत्वाच्च विशेषणतया बोद्धुमशक्यः । बाघवारणाय षडन्यभावे पदार्थत्वव्यवच्छेदे तु विशेष्याप्रसिद्धिरपि । तथाच तद्वदेव शशशृङ्गादेरप्रसिद्धस्य नाभावविशेषणतया बोध इति भावः । कुसृष्टिव्याख्यानामति । षडेव पदार्था इत्यत्र षडन्यभावे' 6 1 षडन्त्राभावे - ग,