सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ दुष्टोपलम्भसामग्री शशशृङ्गादियोग्यता । तस्यां नानुपलम्भोऽस्ति नास्ति सानुपलम्भने || इति । न च – प्रतियोगिसत्त्वविरोध्यनुपलब्धिरेव ताहिका, - 1 सा च प्रकृतेऽस्त्येवेति – वाच्यम्; स्तम्भात्मनि योग्यत्व- प्रसिद्धया पिशाच उपलम्भापादनं संभवति, शशशृङ्गास्तित्वं न योग्यतया व्याप्तम्, यद्वलात्तेन उपलम्भ आपाद्येत, तथा च नात्र प्रतियोगिसत्त्वविरोधिन्यनुपलब्धिः । अत एव पिशाचा- दीनां भेदः प्रत्यक्षः, नात्यन्ताभावः । न च - शृङ्गादिकं योग्यतया व्याप्तमेवेति – वाच्यम्; तावता हि शृङ्गाभाव प्रामाणिकी । विशेष्यता — आश्रयता अनुमानेन वाच्या | न चालीके सा संभवति । अस्तु तींशस्यालीकस्याभावानुमानं, तत्राह - अभावेति । वस्तुनो न त्वलीकस्य । तथाचानुयोगित्वप्रतियोगित्वे नालीके | स्त इति भावः । नन्वयोग्यस्याप्यनुपलब्ध्याऽभावो गृह्यतां, तत्राह — दुष्टोपलम्भेत्यादि । दुष्टा दोषसहिता शशशृङ्गाद्युपलम्भस्य सामग्री कारणकूटं वासनादिसहितः शब्दादिरिति यावत् । योग्यतेति । योग्यस्य प्रतियोगिनोऽनुपलब्धिरेवाभावग्राहिका वाच्या, अन्यथातीन्द्रियमात्रस्य सर्वत्राभावसिद्ध्यापत्तेः; सा च प्रकृते नास्तीति भावः । प्रतियोगिसत्त्वविरोधिनी प्रतियोगिसत्त्वेन पादनार्हप्रति - योगिका अनुपलब्धिः ग्राह्याभावस्य प्रतियोग्यनुपलब्धिः । ताहिका- अभावमात्रग्राहिका । एवकारात्पूर्वोक्तानुपलब्धिर्न तथा ; पिशाचादि- भेदस्य स्तम्भादौ मनस्त्वाद्यत्यन्तामावस्य घटादौ ग्रहे तदभावात् । स्तम्भात्मनि स्तम्भाभिन्ने । स्तम्भो यदि पिशाच: स्यात्तदोप- लभ्येतेत्यापादनं संभवति; स्तम्भाभिन्नस्योपलब्धिविषयत्वरूपयोग्यत्व- 148 1 नालीकस्य क. ग. [प्रथमः