परिच्छेदः] अविद्याऽऽद्यनिर्वाच्यत्वे प्रत्यक्षानुमानप्रमाणनिरूपणम् 123 सत्त्वराहित्यांशे, पञ्चमे तूभयत्र सवराहित्यांशे, सप्तमेऽप्युक्त- न्यायेनोभयत्राप्यसत्त्वराहित्यांशे, एवमेवाबाध्यत्वशून्यत्वे प्रामा- णिकत्वशून्यत्वे च पक्षे बाधाः, षष्ठे त्वबाध्यत्वरूपसत्त्वेनाप्यु- पपत्त्या अर्थान्तरं ' – इति – तन्न; पूर्वोक्तासत्त्वमादायांशतो बाधसिद्धसाधनादेः परिहृतत्वात् || - - ननु – साध्यप्रसिद्धयर्थानुमाने सत्त्वासत्त्वे समानाधि- करणात्यन्ताभावप्रतियोगिनी न भवतः, परस्परात्यन्ताभाव- त्वात् घटत्वाघटत्ववत् असत्त्वम् सत्त्वानधिकरणानिष्ठ न, तत्प्रतिषेधरूपत्वात्, यथा अनित्यत्वं नित्यत्वानधिकरणानिष्ठु , , प्रामाणिकत्वयोः सत्त्वरूपत्वे तदभावयोरसत्त्वरूपयोस्त्वन्मते प्रपञ्च- रूप्ययोः सत्त्वात्तदभावांशे तदुभयत्र बाघ इति भावः । सप्तमे असत्वाभावरूपं सत्त्वमिति पराङ्गीकृतपक्षे । उक्तन्यायेन सत्त्व निषेधे सत्त्वाभावरूपासत्त्वमावश्यकमिति न्यायेन अबाध्यत्व- शून्यत्वे | तृतीयपक्षरूपसत्त्वस्याभावांशे । प्रमाणिकत्वशून्यत्वे चतुर्थपक्षरूपसत्त्वस्याभावांशे । मन्मत इति शेषः । पक्षे जगति । पूर्वोक्तासत्त्वम् । पराभ्युपगतं सत्त्वेन प्रतीत्यनर्हत्वरूपं वाऽसत्त्वम् । सत्त्वासत्त्वे इत्यादि । सत्त्वमसत्त्वात्यन्ताभाववन्निष्ठात्यन्ताभावाप्रति- योगि, असत्त्वात्यन्ताभावत्वात्, यो यदत्यन्ताभावः स तदत्यन्ताभाव- वन्निष्ठात्यन्ताभावाप्रतियोगी, यथा घटत्वस्यात्यन्ताभावोऽघटत्वं घटत्वा- त्यन्ताभाववन्निष्ठात्यन्ताभावाप्रतियोगीत्यर्थः । असत्त्वमित्यादि । अस- त्त्यं सत्त्वानाधिकरणनिष्ठभेदप्रतियोगितानवच्छेदकम् सत्त्वात्यन्ता- भावत्वात्, यो यदत्यन्ताभावः स तदनधिकरणनिष्ठभेदप्रतियोगितानव- च्छेदकः, यथा नित्यत्वाभावो नित्यत्वानधिकगण निष्ठभेदप्रतियोगितानव- ,
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०९१
दिखावट