पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

122 सव्याख्यायामद्वैतसिद्धौ [प्रथमः , साम्यम् ; 'विमतमसत्, सवानधिकरणत्वात् नृशृङ्गवत्' इति सत्प्रतिपक्षश्चेति – वाच्यम् ; ख्यातिबाधान्यथानुपपत्तिलक्षण- विपक्षबाधकतर्कस्य -- - वक्ष्यमाणत्वेनाभाससाम्यसत्प्रतिपक्षयोर- भावात् । नचासदेव रजतमभादिति प्रत्यक्षबाध:; असदित्यस्य सवाभावविषयकत्वस्योक्तत्वात्, अन्यथा ख्यात्यनुपपत्तेः । अत एव मिथ्याशब्दोऽप्यसत्पर्याय इति-निरस्तम् । न चैवं ब्रह्मण्यपि सत्त्वाभावेनासदिति बुद्धिः स्यात् ; निर्धर्म के सत्त्वरूपधर्माभाव- विषयक प्रतीते रिष्टत्वात् ; तुच्छत्वविषयक प्रतीतेरापाद काभावात् । न चैवमसत्त्वाभावेन जगति सदिति प्रतीत्यापत्तिः; इष्टापत्तेः । न च - नृशृङ्गासत्वबुद्धितो नास्या वैलक्षण्यमनुभूयत इति वाच्यम्; एतावता तस्या अपि सत्वरा हित्यविषयकत्वमस्तु, न तु तदनुरोधेनैतस्यास्तुच्छत्वविषयकत्वम् ; तुच्छत्वे अत्र बाधक- सवात्; समानाकारप्रतीत्योरपि विचित्रविषयकत्वस्य प्रागेव दर्शितत्वाच || - यत्तु- 'सत्त्वासत्त्वविकल्पेष्वाद्यद्वितीययोर्जगति सवरा- हित्यांशे, रुप्यादावसत्त्वराहित्यांशे, तृतीयचतुर्थयोरुभयत्राप्य- - - ख्यात्यनुपपत्तेः । प्रत्यक्षानुपपत्तेः । समानाकारप्रतीत्योः। समानशब्दो- ल्लिख्यमानबुद्धयोः | सत्त्वा सत्त्वविकल्पेष्विति | सत्त्वं तावत् 'सत्ता- जातिर्वा, अर्थक्रियाकारित्वं वा, अबाध्यत्वं वा, प्रामाणिकत्वं वा, अशून्यत्वं वा, ब्रह्मत्वं वा पराङ्गीकृतं वा ' इति पूर्वोक्त विकल्पेप्वित्यर्थः । सत्त्वराहित्यांश इति । बाघ इत्यग्रेऽन्वयः । एवमन्यत्रापि । असत्त्वराहित्यांश इति । सत्ताजातेरर्थक्रियाकारित्वस्य चासत्त्वाभाव- त्वेन तयो रूप्यादौ बाघ इत्यभिमानः । वस्तुतः प्रातीति केऽपि तयोः संभवस्योक्तत्वान्नेदं परोक्तं युक्तम् । तृतीयचतुर्थयोरिति । अबाध्यत्व-