पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैताद्धौ 110 ननु – सत्त्वादिराहित्यस्यातात्त्विकत्वेऽपि सत्वादेर्दुर्निरूपत्वमा त्रेणानिर्वाच्यत्वे पञ्चमप्रकाराविद्यानिवृत्तौ 'नानिर्वाच्योऽपि तत्क्षय' इत्यनिर्वाच्यत्वनिषेधायोगः, सत्त्वादिवत्तद्राहित्यस्या- प्यतात्विकत्वे सवादौ प्रमाणनिरासेन तद्राहित्ये तदुक्तथयोगः, अविरोधाय विधिसमुच्चयस्यैवातात्त्विकत्व स्वीकारश्चेति – चेन्न; पञ्चमप्रकाराविद्यानिवृत्तिपक्षे नैतत्रितयविलक्षणत्वमात्रमनिर्वा- , च च्यत्वम्, किंतु मुक्तिकालानवस्थायित्वसहितम् । तथा मुक्तिकालावस्थायिन्यामविद्यानिवृत्तावनिर्वाच्यत्वनिषेधो युज्यते । सत्त्वादिराहित्ये त्वबाधितार्थविषयकप्रमाणोक्तिर्नास्त्येव । ज्ञापकमात्रोक्तिस्तदंशेऽसाधारण्यतो वादिविप्रतिपत्तिनिरासार्था । प्रथमः , न्यस्वरूपम् । बाधावधित्वादिनाधिष्ठानस्वरूपस्य परिशेषेऽपि तदन्य- त्सत्त्वादि संसृष्टरूपं बाध्यत्वेन न वास्तवमिति भावः । दुर्निरूपत्व- मात्रेण - स्वान्यूनसत्ता कस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमात्रेण । अनिर्वाच्यत्वे – तादृशसत्त्वाद्याश्रयप्रपञ्चस्यानिर्वाच्यपदार्थत्वे | नानि - र्वाच्योऽपीति । न सन्नासन्नापि सदसदित्यादिः । तत्क्षयः - अविद्या- नाशः । सवादिवदिति । प्रपञ्चेत्यादिः । तद्राहित्ये -सत्त्वादिराहित्ये । तदुक्तययोगः–प्रमाणोक्तेरयुक्तता | स्वीकारः स्वीकारापत्तिः । युज्यत इति । नन्वनिर्वाच्यविशेषस्य मुक्तिकालान्वयेऽपि क्षत्यभावादविद्या- निवृत्तिव्यावृत्तये विशेषणोपादानं व्यर्थमिति चेन्न; अविद्यानाशस्य मुक्ति- स्वरूपत्व मतेऽनिर्वाच्यत्वासंभवात् अनिर्वाच्यसामान्यस्य तत्त्वधीनिव- र्त्यत्वावश्यकत्वात् । अन्यथा ज्ञान निवर्त्यत्वरूपस्य मिथ्यात्वलक्षणस्य तत्रा- व्याप्तयापत्तेः । ज्ञापकमात्रोक्तिः – व्यावहारिकस्य सत्त्वाद्यभावस्था- नुमानायुक्तिः । तदंशे व्यावहारिकसत्त्वाभावाद्यंशे । असाधा- 1 9