सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः तिकर्मत्वावरोघेजप तत्रेश्वरकृतिकर्मत्वस्योपलब्धि प्रति करण- त्वस्य चाविरोधात् ईश्वरे अविद्यावृत्तिरूपज्ञानेच्छावत्तद्रूपक- तिसंभवात् । न च -- विज्ञानपदं ब्रह्मपरम्, 'विज्ञानं ब्रह्म चेद्वेद । तस्माचेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान्कामान् समत' इत्यादि वाक्यशेषादिति – वाच्यम्; वाक्यशेषो- क्तमुमुक्षुज्ञेयशुद्धब्रह्मणो यज्ञकर्तृत्वासंभवेन कर्तृत्वेन प्रतिपाद्य- माने विज्ञाने ततोऽर्थान्तरत्वनिश्चयात्, 'अनं ब्रह्मेत्युपास्त ' इत्येतद्वाक्यसमानयोगक्षेमत्वाच्च ॥ - 88 1 2 'तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति ' || इत्यादिस्मृतेः, ‘प्रकृतेः क्रियमाणानी' त्यादिस्मृतेश्च । न चात्मनि स्वातन्त्र्येण कर्तृत्वनिषेधबोधकत्वमनयोः, सामान्यतो निषेधे बाघकाभावात् । अत एव 'ध्यायतीव लेलायतीवे' त्यादाविवशब्दः । इति गौडपादीयोक्तमाण्डूक्यम् । उपलब्धि प्रतीति । तथाच 'शरीरवाङ्मनोभिर्यत्कर्मे 'त्यादावप्युपलब्धिपूर्वक कर्मसूपलब्धिद्वारकं मन- सः करणत्वमुक्तमिति भावः । एतद्वाक्येति । एतदर्थक 'सर्व वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासत' इति वाक्येत्यर्थः । समानयो- गेति । उक्तवाक्यशेषे सत्यपि ' ओषधीभ्योऽन्नम् । अन्नात्पुरुष' इत्या- दावन्नपदं न ब्रह्मपरम्; अनन्वयापत्तेः एवं 'विज्ञानं ब्रह्म चे'दित्यादि शेषे सत्यपि ' विज्ञानं यज्ञ 'मित्यादौ विज्ञानपदं न ब्रह्मार्थकम् ; 'ब्रह्मविदामोती 'त्यादौ प्रकृतं ब्रह्म हि विज्ञानादावुपास्यमुच्यते, तच्च शुद्धमेवेति न क्रियासामान्यकर्तृत्वान्वययोग्यमिति भावः । निषेधे बाघकाभावादिति । 'पञ्चैते तस्य हेतव' इति पूर्ववाक्ये क्रिया- , 1 क्यमुक्तमिति -ग. 2 प्रतीतिम्.