पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] कर्तृत्वाध्यासोपपत्तिः 87 भाक्त्वनियमं ब्रूमः, किंतु फलभाजः कर्तृत्वनियमम् ; अजनित फलकर्मकर्तरि व्यभिचारात् अप्रयोजकत्वाच्च । ननु – मनसः कर्तृत्वं न घटते; कृतिकर्मत्वस्य करणत्वस्य च तद्विरोधिनः श्रुत्यादिसिद्धत्वात्, बुद्धयभावेऽपि कर्तृत्वस्य श्रूयमाणत्वाच्च । तथाहि 'तन्मनोऽकुरुते ' त्यादौ मनसः कृतिकर्मत्वम्, 'शृण्वन्तः श्रोत्रेण विद्वांसो मनसे' त्यादिश्रुतौ 'शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नर' इत्यादिस्मृतौ च करणत्वम्, 'मन उदक्राम- न्मीलित इवानन् पिबन्नास्तेवे' त्यादिश्रुतौ मनउत्क्रमणेऽप्या- त्मनः कर्तृत्वम्, तथा ' परं ज्योतिरूपसंपद्य स्वेन रूपेणाभि- निष्पद्यते स तत्र पर्येति जक्षन् क्रीडन् रममाण' इत्यादौ स्वरूपाविर्भावरूपपरममुक्तावपि कर्तृत्वं 'कर्ता विज्ञानात्मा' 'यो वेदेदं जिघ्राणीति स आत्मा' 'आनन्दभुक्तथा प्राज्ञ ' इत्यादिश्रुतितश्च कर्तृत्वम् तथा च बुद्धिर्न कर्त्रीति – चेन्न; ' विज्ञानं यज्ञं तनुत' इत्यादिश्रुत्या मनसः कर्तृत्वेन स्वकृ- , 4 फलभाक्त्वान्यथानुपपत्त्या सूक्ष्मरूपेण स्थितस्य देहस्य भोगकाले पुन - रुपचयोऽदृष्टद्वारा फलपर्यन्तं सत्त्वं वा कल्प्यत इति -- तत्तुच्छम् ; पुनरुपचितस्याकर्तृत्वेन कर्तृदेहे फलानिर्वाहात्, कर्तृदेहजन्यादृष्ट- सत्त्वेऽपि कर्तृदेहाभावाच्च । व्यभिचारादिति । बाघकाभावे सतीति विशेषणे तु शरीरादावपि नापत्तिरिति भावः । कर्ता विज्ञानात्मेति - प्रश्नोपनिषत् । यो वेदेदं जिघ्राणीति स आत्मेति – छान्दोग्यम् । आनन्दभुगिति- - ‘विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत' ॥