पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अंडमर्थानात्मत्वोपपत्तिः 67 अहंकारवाई कर्तव्यं चे' ति श्रुतेः 'महाभूतान्यहंकार' इति स्मृतेरहंकारस्य व्यापकत्वासंभवात् 'अहं मनुरभव' मित्यादा- विवाहंपदस्य निष्कृष्टाहंकारचैतन्यपरत्वात् । ननु – अनयो श्रुतिस्मृत्योर्महत्तत्वकार्य मनआदीनां कारणं वैकारिकादिभेदेन त्रिविधमहंकारादिपदवाच्यं विषयः, न त्वहमर्थः; तथा च स्मृतिः- महत्तत्वाद्विकुर्वाणाद्भगवद्वीर्यचोदितात् । क्रियाशक्तिरहंकारस्त्रिविधः समपद्यत || इत्यादेरविरुद्धार्थमादायोपपत्तेः । विरुद्धार्थत्वकल्पनायां 'बुद्धिरव्यक्तमेव चे' त्यत्र क्षेत्रे प्रयुक्तबुद्धिशब्देन संविद उक्तौ 1 नात्मे ' ति मोक्षधर्मोक्तमहत्तत्त्वस्य मायावृत्तिरूपवीक्षणरूपत्वं तद्वि- शिष्टे स्वरूपत्वं वा विवक्षितं बोध्यम् । 'यथा सौम्य वयांसि वासो- वृक्षं संप्रतिष्ठन्ते एवं ह वै तत्सर्वं परे आत्मनि संप्रतिष्ठते' इत्यादि 'मनश्च मन्तव्यं च बुद्धेिश्च बोद्धव्यं च अहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं चे' त्यादि प्रश्नोपनिषद्यात्माश्रितत्वेनोच्यमान- मनआद्यन्तरिन्द्रियचतुष्टयमध्ये 'महाभूतान्यहंकार' इत्यादि 'एतत् क्षेत्रमि' त्यन्तगीतावाक्ये च क्षेत्रमध्ये चाहंकारस्य पाठान्न तस्यात्मत्वामि- त्याशयेनाह–अहंकारश्चेत्यादि । व्यापकत्वासंभवात् इन्द्रियक्षे- त्ररूपाहंकारादिव्यापकात्मस्वरूपत्वासंभवात् । अहं पदस्येति । अनि- रुद्धो ही ' त्यादिस्मृतौ ‘स यो हैत ' मित्यादिश्रुतौ चाहंकाराहंपदयो - रित्यर्थः । लक्षणयेति शेषः । तथाच शुद्धात्मा नाहंकारादिपदमुख्यार्थ इति भावः । मनआदीनां मनइन्द्रियभूतानाम् । यथाक्रमं हेतुः । वैकारिकादिभेदेन सात्त्विक राजसतामसभेदेन । , कारणं 1 तद्विशिष्टेश्वररूपत्वं - ग. 5*