पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ' || इत्यनेन 'सैव हि सत्यादय' इति सूत्रेण चाहंकारस्या- त्मत्वम्, अन्यथा व्याप्तयुक्तिरयुक्ता स्यादिति – वाच्यम्; - 66 [ प्रथमः अहंकारस्यात्मत्वमिति । अनिरुद्धो हत्यादिस्मृतौ पितामहादिजग- निर्मातृत्वेन 'आत्मन एवेदं सर्व मित्यादिश्रुत्युक्तात्मन्यहं कारपदप्रयोगात् 'सैव हि सत्यादय' इति सूत्रेणैकस्याः सत्यविद्यायाः प्रतिपादकतया निर्णीते ' स यो हैतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मे' त्यादि 'तत्सत्य- मसौ स आदित्यो य एतस्मिन् मण्डले यश्चायं दक्षिणेऽक्षन् पुरुषस्तस्योप- निषदह 'मिति बृहदारण्यके दक्षिणाक्षिगतपुरुषेऽहंपदनामत्वोक्तेश्चाहंकार- स्यात्मत्वमित्यर्थः । व्याप्तयुक्तिः अपरिच्छिन्नत्वोक्तिः । महदादि- पदैरिति शेषः । वस्तुतः - ' परमात्मति यं प्राहुः साङ्ख्ययोगविशारदाः । तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्जनाः || अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् । अनिरुद्धो हि लोकेषु महानात्मा परात्परः || योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् । सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् | अहंकारप्रसूतानि महाभूतानि पञ्च च' || इति मोक्षधर्मवाक्ये महदहङ्कारपदयोः साङ्ख्यसिद्ध महदहङ्कारावर्थः, तौ च मन्मते भगवद्वीक्षणचिकीर्षे; तथा चोक्तवाक्येऽहंकारस्यात्मत्वोक्ति- मौढ्यादेव । अत एव - 6 ' तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः । अहंकारस्तत ' इत्यपि मोक्षधर्मे स्थानान्तरे उक्तम् । 'महा-