पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छे २३] अहमर्थानात्मत्वोपपत्तिः रेवोपाध्योः परस्परमुपहितभेदकत्वम्, यौ परस्परानुपहितमुप- धत्तः । अन्यथा कम्ब्ववच्छिन्नग्रीवावच्छिन्नाकाशदन्य एव घटाकाश: स्यात् । न चैवं सुषुप्तावहमर्थाभावे अहं निर्दुःखः स्यामितीच्छया सुषुप्तयर्थ प्रवृत्ययोगः; कृशोऽहं स्थूलो- भवामी' तिवत् प्रवृत्युपपत्तेः । न च – तत्र कार्यादिनिष्कृष्टस्य शरीरस्यैव स्थौल्याधिकरणतया विवेकिनामुद्देश्यत्वमिति - वाच्यम् ; प्रकृतेऽप्यन्तःकरणादिनिष्कृष्टस्यैव तदुद्देशविषयत्वात् । गच्छन्त्य इत्यन्तं सति संपद्येत्यन्तं चोक्तश्रुत्योः सार्थकम् ; प्राज्ञस्व- रूपस्यानावृतप्रकाशत्वेऽपि शुद्धात्मनो न तदित्यर्थकत्वात् । अत एव — कार्योपाधिसंसृष्टत्वेनाभानमेव सत्संपत्त्यादिशब्दार्थ इति - अपास्तम्; तादृशाभानेऽपि शुद्धात्मरूपब्रह्माभानमित्यर्थस्यासङ्गतत्वात् । यथोक्तसत्संपत्त्याद्यादरे तु शुद्धात्मन्येवाज्ञानम्, न तु प्राज्ञ इति ज्ञापयन्ती श्रुतिः प्राज्ञान्यात्मस्वरूपपरेति ध्येयम् || - अन्य एव घटाकाशः स्यादिति । नन्वत्रेष्टापत्ति; अन्यथा साक्षिण एव मनस्तद्वृत्तिघटावच्छिन्नतया प्रमातृप्रमाणप्रमेयाद्यभेदः स्यादिति -- चेत्, भ्रान्तोऽसि ; मनआदिकं हि यद्यपि न साक्षिचैतन्या- त्स्वावाच्छन्नं भिनत्ति, तथापि वृत्त्याद्यवच्छिन्नचितः स्वावच्छिन्नचितं भिनत्येवेति कथं प्रमात्रादीनामभेद ? न च - मनसो वृत्तावप्यनगमा- त्कथं तदवच्छिन्नात्स्वावच्छिन्नभेदकत्वमिति – वाच्यम्; मनोभागः शरीरावच्छिन्नः प्रमातुः, शरीरविषयाभ्यामनवच्छिन्नम्तु प्रमाणस्य, विषयावच्छिन्नस्तु प्रमितेरुपाधि : मनोविषयसंबन्धोत्पत्तिकालांना चित्प्र- मितिः, उक्तोत्पत्तिपूर्वकालीनाऽज्ञातत्वोपहिता चित्प्रमेयम, उक्तो- त्पत्त्युत्तरकालीना चित्फलमिति, व्यवस्थायाः सिद्धान्तबिन्द्वादौ स्फुट- त्वात् । निष्कृष्टस्येति । साक्षिगतनिर्दुःखत्वमात्रमुद्देश्यम्, अह- 1 तदवच्छिन्ना भेदकत्व - क. , , 55