पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः वच्छिन्नचैतन्यं वा । आद्ये योऽहमकार्ष सोऽहं सौषुप्तिका ज्ञानादि स्मरामीत्यनुभवविरोधः । अन्त्ये त्वहमर्थस्यैव तदनुभवितृत्वं वाच्यम्; स्मृतिसंस्कारानुभवाना मेकाश्रयाणामेव कार्यकारण- भावात्, 'योऽहमन्वभूवं सोऽहं स्मरामी 'ति प्रत्यभिज्ञाना- च्चेति – तन्न; दत्तोत्तरत्वात् । उक्तं ह्यविद्यावच्छिन्नचैतन्य - मनुभवितृ, तदेव चान्तःकरणावच्छेदेनानुभूयमानं स्मत्रिंति न तयोरुप्यम् । नचाविद्यावाच्छन्नाचतोऽपि नैक्यमस्ति, अन्तःकरणरूपोपाधिभेदेन भेदादिति - वाच्यम्; अविद्या- वच्छिन्न एवान्तःकरणावच्छेदात् । न च तथाप्यविद्या- – न्तःकरणरूपोपाधिभेदेन मठाकाशतदन्तःस्थघटाकाशयोरिवोप- हितभेद: स्यादिति – वाच्यम् ; दृष्टान्तासंप्रतिपत्तेः । तयो- 54 न चात्मनि प्रकाशमानेऽप्यज्ञानसंभवान्नोक्तश्रुतिविरोध इति -- वाच्यम् ; शुद्धात्मनि ह्यज्ञानं सतर्कमानसिद्धत्वेनोक्तम्, न तु साक्षिणि ; तथाच प्राज्ञो नात्मानं वेत्तीत्यनन साक्षिस्वरूपे प्राज्ञात्मन्यज्ञानबोधने उक्तश्रुतिर्विरध्यत एव । न च - - श्रुतिबलादेव प्रकाशमाने शुद्धात्म नीव साक्षिण्यज्ञानमुच्यतामिति – वाच्यम् ; नात्मानमित्यादि'श्रुतिः परामृश्यमानत्वान्यथानुपपत्त्या लोकसिद्धप्रतीतिकाज्ञानस्यानुवादिका ; साक्ष्यंशाज्ञानं तु परामृश्यत इति न तल्लोकसिद्धप्रतीतिकमिति नोक्त श्रुत्याप्यनूद्यते । न चैवमप्यात्मवेदनश्रुतिविरोधो न विशेषाज्ञानपरत्वे हेतुः, किंतु प्राज्ञविषयकत्वेनाज्ञानपरामर्शस्याभाव इति स एव वक्तुं युक्त इति – वाच्यम्; परामर्शाभावात् । प्राज्ञाज्ञानाभावासद्धौ चात्मवे. दनबोधकश्रुतिरनावृतप्राज्ञप्रकाशं बोधयतीति कल्प्यते । अत एव .4 1 नात्मानं वेतत्यादि-ग. 2 श्रुतिपरामृश्य - क. ग. 3 न परामृश्यत - ग. 4 सिद्धा- क.