पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] अहमर्थानात्मत्वोपपत्तिः कालाननुभूतत्वेन तत्काले अज्ञानाश्रयत्वेन चानुभूतात्मन्येव परामर्शत्वपर्यवसानम् । अत एव चिदस्वपत्स्वियमस्वपादीत परामर्शाकारतापत्तिर्निरस्ता; तत्कालानुभूतान्तःकरणसंसर्गेऽ- हमित्याकारोपपत्तेः । यतूक्तं विवरणे – 'अन्तःकरणविशिष्ट एवात्मनि प्रत्यभिज्ञानं ब्रूमः, न निष्कलङ्कचैतन्ये, तस्य मोक्षा- वस्थायिनः शास्त्रैकसमधिगम्यत्वा' दिति, तदत्र न विरोधाय | मोक्षावस्थायिनः शास्त्रैकसमधिगम्यत्वादिति हेतूक्तया न निष्क- लङ्क इत्युपाधिमात्रविरहिणि प्रत्यभिज्ञाननिषेधेन चान्तःकरण- पदस्योपाधिमात्रपरत्वात् । तथा च सुषुप्तावप्यज्ञानोपहित एवात्मा अविद्यावृत्तिरविद्यात्मोभयविषयिका, न तु संसर्गविषयिका; सविकल्प- वृत्तिः सुषुप्तौ न संभवतीति पूर्वोक्तत्वात् । स्वयं अहमर्थाधिष्ठानरूप- मविद्योपहितचैतन्यम् । यद्यप्यविद्योपाहतत्वेन स्मृतिर्नापादयितुं शक्या, सुषुप्तौ तथाननु' भवात् ; तथापि वस्तुगत्या यदविद्योपहितं साक्षि- स्वरूपं तदाकारवृत्तेः सुषुप्तौ सत्त्वात्तथैव स्मृत्यापत्तिर्बोध्या । साक्ष्यंशे स्मृतिरूपा अहमर्थांशे स्मृतित्वशून्या एकैवाविद्यावृत्ति, सामग्रसित्त्वे - नाहमर्थविषयकत्वस्य प्रत्याख्यातुमशक्यत्वादित्याशयेनाह-तत्कालेति । यत्तूक्तमिति । सोऽहमिति प्रत्यभिज्ञा न स्यात् ; आत्मनः ' स्वप्रकाश - चिद्रूपत्वेन ज्ञाननाशरूप संस्कारासंभवादित्याशङ्कयेत्यादिः । विशिष्ट एवेति । तथाच तत्र वृत्तिज्ञानसत्त्वात्तन्नाश एव संस्कार इति भावः । निषेधेनेति । अविद्योपहितेऽप्यविद्यावृत्तेर्विवरणकारसंमतत्वेन संस्कारा धीनप्रत्यभिज्ञा 'संभवात्तदनुक्तया न्यूनत्वेनेति शेषः । उपाधिमात्रेति । नचैवं – मनसः प्रतिसुषुप्तिकालं नाशात्तथापि प्रत्यभिज्ञानुपपत्तिरित्या- 2 - 1 तथानुभ-क. प्रत्यभिज्ञानस्यात्मनः -ग. 3 स्वरूप - ग. A. VOL. III. 2 49 ज्ञान- क्र. 4 -