पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धौ [ प्रथमः रूपादिरहितानां तेषामसत्त्वं तत्र बीजमिति वाच्यम् ; पूर्वरूप- नाशाग्रिमरूपानुत्पत्तिक्षणाद्यक्षणादौ तद्विनापि सत्त्वात् । एवं च गुणाग्रहणे कथं गुणिग्रहणम् ? तथाच निर्गुण एवात्मा गृह्यत इति स्वीकर्तव्यम् । अनुभवाभावे च न तस्य जागरे परामर्शः । तथाचाज्ञानाश्रयत्वेन सुषुप्तावनुभूयमानादात्मनोऽहंकारो भिन्नः । एवमेवात्मान्यत्वे सिद्धे अस्वप्रकाशत्वसाधने नान्योन्या- श्रयः । न च तार्ह ‘अहमस्वाप्स ' मित्यहमर्थस्य परामर्शानु- प्रवेशानुपपत्तिः; तदंशे परामर्शत्वासिद्धेः । एवं सत्यपि यथाऽ ज्ञानांशे तस्य परामर्शत्वं तथोपपादितमधस्तात् । यद्यप्यहमस्वा- प्समित्यादिज्ञानान्नान्य आत्मपरामर्शः, तथाप्यहमर्थस्य सुषुप्ति - न च अहमर्थ एकत्वगुणविशिष्टतया सुषुप्तौ गृह्यते पश्चात्स्मर्यते चेति न व्याप्तिभङ्ग इति वाच्यम् ; सुषुप्तौ विशिष्टधीस्वीकारे सुषुप्तित्वभङ्गात्, अहमर्थैकत्वग्रहस्य तार्किका दिविप्रतिपन्नत्वात् विशेषगुणग्रहस्य गुणि ग्रहव्यापकत्वभङ्गाच्च । न हि रूपाद्यविषयको घटादिग्रहो मानसिद्धः । अनुत्पत्तिक्षणे इति । यत्क्षणे पाकजरूपादि घटादौ जायते, तद- व्यवहितपूर्वक्षणे तस्य नीरूपतावश्यं वाच्या ; अन्यथा रूपादिकारणस्य रूपाद्यभावस्यासम्पत्तेरिति भावः । आद्यक्षणादाविति । तथाच द्वितीय- क्षणादौ घटादिरूपाद्यविषयक प्रत्यक्षापत्तिः ; आद्यक्षणे संयोगसन्निकर्षा- भावेऽपि संयुक्तसमवायसन्निकर्षसंभवात् द्वितीयक्षणे रूपादिसत्त्वेऽ- प्याद्यक्षणे तत्र सन्निकर्षाभावेन द्वितीयक्षणजायमानप्रत्यक्ष रूपादेरविषय- त्व संभवादिति भावः । निर्गुण एवात्मेति । एवकारात्सगुणात्मनि ग्राह्यत्वव्यवच्छेदः, सगुणात्मा चाहंकार एवति बोध्यम् । तस्य अहंकारस्य । अज्ञानाश्रयत्वेन अज्ञानेन सह । अनुभूयमानादिति । 1 रूगदेविषयत्व - ग. , 48 6 ,