पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीयमिथ्यात्वनिरूपणम् 81 तज्ज्ञानयोः बाध्यबाधकभावो न स्यादिति वाच्यम् । भिन्न- सत्ताकयोरविरोधेऽपि समसत्ताकयोर्विरोधात् । यत्र भूतले यस्य घटस्यात्यन्ताभावो व्यावहारिकः तत्र स घटो न व्यावहारिक इति नियमात् । न चैवं सति 'शुक्तिरियं न रजतम्' इति ज्ञानविषयीभूताभावस्य व्यावहारिकत्वेन पुरोवर्तिप्रतीतरजतस्य व्यावहारिकत्वापहारेऽपि प्रातीतिकसत्त्वानपहारात् बाघोत्तर- कालेजप 'इदं रजतम्' इति प्रतीतिः स्यादिति वाच्यम्; रकज्ञानस्य अपरज्ञाने भ्रमत्वज्ञापकत्वं तत्तथापि स्वान्यूनसत्ताकसन्मा- त्रनिष्ठाभावप्रतियोगित्वविशिष्ट विषय कधीत्वस्यैव भ्रमत्वरूपत्वम् । न तु स्वविरोधिस्वाभाववति स्वप्रकारधीत्वस्य शुक्तिरूप्यादिज्ञानस्य तदभा- वात् । अतएव समसत्ताकयोः अविरुद्धयोरपि स्वामभावाभावयोः बाध्यबाधकधीविषयत्वमुक्तमिति नानुपपत्तिः । अथ तयोरेकज्ञानस्य अपरोपादानाज्ञाननिवर्तकत्वं तत्तथापि न तयोः विरोधोऽपेक्ष्यते प्रत्युत अविरोधः, एकाश्रये अपरस्य कल्पितत्वात् । अथ तयोरेकज्ञानस्य स्वविषयापेक्षया न्यूनसत्ताकविषयकत्वज्ञापकत्वं अपरज्ञाने तत् तथापि तत्परत्वादिप्राबल्यसापेक्षत्वेऽपि तस्य न तयोर्विरोधापेक्षा इत्यस्माकं स्थितिः । त्वं तु यदि तयोर्विरोधेऽत्यन्तभक्तः तदा पारमार्थिको व्यावहारिको वा मिथ्यात्वघटकोऽभाव इत्युक्तयोः पक्षयोराद्य रोचयेरित्याभप्रेत्याह—भिनेति । न व्यावहारिक इति । किन्तु प्रातीतिक इति शेषः । प्रातीतिकसत्त्वानपहारात् भिन्नसत्ता काभा- वस्याविरोधित्वेन तज्ज्ञानस्याबाधकत्वात् उच्छिन्नापरोक्षताकत्वाभा- वात् । बाधेति । स्वान्यून' सत्ताकसन्मात्र निष्ठात्यन्ताभावप्रतियोगित्वनि- श्वयेत्यर्थः । तथाच समसत्तान्तर्मावेनन विरोध: किन्तु सामान्यत इति भावः । प्रातीतिकरजतस्य व्यावहारिकस्वाभावाविरोधेऽपि न A.S.V. 1 स्वन्यून. 6