पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

80 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः मिथ्यात्वं मन्तव्यम् । न चैवं सति भावाभावयारविरोधात् तज्ज्ञानयोर्बाध्यबाधकभावो न स्यादिति वाच्यम्; 1 प्रातिभासकवृत्ति तयारेन्यतरवत्त्वं मिथ्यात्वामिति निष्कर्षस्तु पूर्वमे वोक्तः । बाध्यबाधकेति । भावाभावयोस्सामानाधिकरण्यबुद्धौ सत्यां तयोरेकज्ञानमपरज्ञानाबाध्यम् । अतः उक्तबुद्धयभावविशिष्टेन तयो- विरोधावषयकेन वा परज्ञानेन बाध्यं वाच्यम् । तादृशज्ञानं च मिथ्यात्वं जानतां न सम्भवतीति न तेषां तथेति भावः । बाघकत्वं यदि प्रतिबन्धकत्वं तदा तन्नास्त्येव , तयोरकप्रमायां सत्यामविद्यादोषादिविरहादेवापरभ्रमानुदयात् । तयोरेकअमे सति तज्ज- नकदोषादिनैवापरप्रमानुदयात् । भावाभावयोरेकज्ञानस्य अपरज्ञानप्रति- बन्धकत्वाङ्गकारेऽपि मिथ्यात्वधीपूर्वक उक्त प्रतिबन्धकज्ञानं सम्भव- त्येव । वस्तुतः प्रतियोगिसामनाधिकरण्यधीरभावधीप्रतिबन्धकतायां नोत्तेजिका । न च समुच्चयोत्तरं समुच्चयो न स्यादिति वाच्यम् । अवच्छिन्नत्वरूपाव्याप्यवृत्तित्वज्ञानस्योत्तेजकत्वात् । न च प्रातिभासिक- वेन ज्ञायमानाभावस्य धीरापे प्रतिबन्धिका स्यादिति वाच्यम्; ब्रह्मज्ञानपूर्वबाध्यत्वरूपस्य प्रातिभासिकत्वस्य ज्ञाने तद्वदभावविषय- कत्वस्य प्रमात्वाभावव्याप्यत्वेन गृहीतस्याभावज्ञानग्रहे अप्रमात्वग्र- हात्' प्रमात्वेन गृह्यमाणस्य अभावज्ञानस्य प्रतिबन्धकत्वेन क्लृप्त- स्य उक्तधरूिपत्वाभावात् । एतेन प्रतियोगिसामानाधिकरण्य- ज्ञानस्य उत्तेजकत्वे प्रातीतिकप्रतियोगिसामानाधिकरण्यधीरपि तथा स्यात् । अन्यूनसत्ताकप्रतियोगिनिवेशे तु गौरवमित्यपास्तम् 1 वस्तुतस्तु मन्मते प्रतिबन्धकत्वं न कस्यापि कुत्राप्युच्यते, अव्याप्य- वृत्तिशक्तेः मण्याद्यसमबहितवढ्यादौ स्वीकारात् । अथ तयो- ! तत्रास्त्येव 2 प्रमात्वाग्रहात्.